________________
२५२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२६) गत इत्यर्थे कस्मिश्चिद् नार्थान्तरव्यावृत्तिः यया विशिष्टा ये शब्देश्चोद्यन्ते दण्डिवत् निमित्तभूता । भिद्यमानयोर्द्वयोर्भेदस्य उभयगतत्वात्, एकगतभेदाभिधानेऽपि नान्तरीयकस्तदन्याक्षेपो भवति। तस्मात न तयोविशेषणविशष्यभावः। एकभेदाभिधानेऽपि अन्यव्यावृत्तिगतिः। अन्वयव्यतिरेकचोदनया
भेदस्तद्विशिष्टो गत इत्युच्यते। आ चा र्ये णेति ।
यद्वा (1) तस्य.यथोक्तस्य वस्तुभेदस्य शब्दाद् गतेः प्रतिपत्तेः सावधारणत्वेन तदुपाधित्वात्। सा तदन्यनिवृत्तिरुपाधिराक्षेपाद् यस्यास्तद्गतेः सा तथोक्ता। तदन्यनिवृत्तिनान्तरीयकत्वमेव तदुपाधित्वं । ___ एतदुक्तम्भवति। यार्थान्तरव्यावृत्तिरर्थाद् गम्यते तन्नान्तरीयकत्वात्स एव भेदः शब्दाद् गम्यमानोन्यव्यावृत्त्या विशिष्टो गत इत्युच्यत आ चा र्ये णेति। . नन्वन्तरव्यावृत्तिः शब्दप्रवृत्तिनिमित्तभूता। यया विशिष्टा बाह्या अर्था' गवादिशब्देश्चोद्यन्ते अप्रतीतेः। दण्डिवदिति वैधर्म्यदृष्टान्तः। यथा दण्डद्वारेण तद्वान् दण्डीत्युच्यते। नैवं व्यावृत्तिद्वारेण व्यावत्तिमानिति। कस्माद व्यावत्तिरर्थान्तरभूता नेत्याह । द्वयो_त्यादि । यस्माद् द्वयोवृक्षावृक्षयोः परस्परम्भिद्यमानयोर्यो भेदस्तस्योभयगतत्वात्। वृक्षावृक्षगतत्वाद् वृक्षावृक्षभिन्नस्वभावत्वादित्यर्थः। तेनैकगतभेदाभिधानेपि। अवृक्षापेक्षया वृक्षगतो यो भेदः। भिन्नः स्वभावस्तस्य शब्देनाभिधानेपि नान्तरीयकस्तदन्याक्षेपो भवति। अवृक्षापेक्षया वृक्षगतस्य भेदस्यावृक्षनिवृत्तिलक्षणस्य वृक्षापक्षयाप्यवृक्षगतस्य वृक्षनिवृत्तिलक्षणस्याक्षेपो भवति। इतिशब्दो हेतौ। अस्माद्धेतोस्तदुपाधित्वात् तद्विशिष्टो गत इत्युक्तमित्यध्याहारः। न तयोरित्येकगतस्य भेदस्य तदन्यव्यावृत्तेश्च न विशेषणविशेष्यभावः।
__ कः पुनरयमेकगतो भेदः का च तदन्यव्यावृत्तिर्येनान्यव्यावृत्तिनान्तरीयकस्यैकमतभेदस्य शब्दात् प्रत्ययो भवतीति चेत्।
उच्यते। वृक्षशब्दवाच्यस्तावद् विकल्पबुद्धिप्रतिभासी शाखादिमदाकारः सर्व93b वृक्षेष्वभिन्नरूप इवातद्रूपेभ्यो भिन्न इव भा'समान एव गतो भेदो भिन्नः स्वभाव
इत्यर्थः। एवं घटादिशब्दवाच्योप्येकगतो भेदो द्रष्टव्यः। तम्भेदं च प्रतिपादयन् शब्दो विजातीयनिवृत्ति प्रसज्यप्रतिषेधलक्षणामर्थाद् गमयति सा तदन्यव्यावृत्तिः।
ननु यद्यन्यव्यावृत्तिविशिष्टो वस्तुभागो न गम्यते किमर्थन्त_न्यव्यावृत्तिविशिष्ट इत्याधुक्तमित्याह । एकभेदाभिधान इत्यादि। यश्चायं यथा विभक्त एकग तो भेदः स एव शब्देन चोद्यते (1) तत्प्रतीतिरेवान्वयगतिः (1) या त्वर्थाद्