SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ NAGE-Manch ४. सामान्यचिन्ता २५१. वस्तुनो भागः कश्चिद् गम्यत इति शब्दोर्थान्तरनिवृत्तिविशिष्टानेव. भावानाहेत्यादिना निर्दिष्टः। स हि तं भेदं कथयन् अर्थान्तरव्यवच्छेदमाक्षिपन्नेव वर्त्तते। एकगतभेदचोदनाया हि तदन्यव्यावृत्तिनान्तरीयकत्वात्। स एव भेदः तव्यावृत्या गतो भागः । तद्गतेः तदुपाधित्वात्। स विशिष्टो तत्त्यक्त्वा निवेश्यत इति सम्बन्धः। कुत्रेत्याह। भिद्यमानानामित्यादि । एतच्च का रि का व्याख्याने विभक्ता)। आक्षिप्ता तदन्यव्यावृत्तिर्येन शब्देनेति विग्रहः। स एव चायं समानरूपप्रतिभासी भेदो निद्दिष्ट आचार्य दिङ ना गे न । कथमित्याह। अर्थान्तरव्यावृत्त्या तस्य वस्तुनः कश्चिद् भागो गम्यत इति । तथा शब्दोर्थान्तरनिवत्तिविशिष्टानेव भावानाहेत्यादिना। आदिग्रहणाच्छब्दार्थान्तरापोहं कुर्वती श्रुतिरभिधत इत्यादि परिग्रहः । सहीत्याद्यस्यैव समर्थनं । स हि वृक्षशब्दस्तम्भेदमवृक्षव्यावृत्तं स्वभावं कथयन्नार्थान्तरस्यावृक्षार्थस्य व्यवच्छेदमाक्षिपन्नेव वर्तते। किं कारणम् (1) एकगतभेदस्येत्यादि। यथा हि वक्षभेदा एव खदिरादयः स्वभावेनैवावक्षेभ्यो भिन्ना एवमवक्षा अपि वक्षेभ्यः भेदस्य द्विष्ठत्वात। तत्र वक्षशब्देनैकगतस्य वक्षार्थगतस्य भेदस्य भिन्नस्य स्वभावस्यैकाकारप्रतिभासिनो या चोदना तस्यास्तदन्यव्यावृत्ति नान्तरीयकत्वात् । तस्माद् वृक्षार्थादन्यस्यावृक्षस्य या व्यावृत्तिस्तन्नान्तरीयकत्वात। एवं ह्यवक्षाद व्यावत्तरूपो वक्षार्थोऽभिहितः स्याद यद्यवक्षार्थस्य तत्र निवृत्तिर्गम्येत । स एवान्यस्माद् भिद्यमानस्य विकल्पबद्धिप्रतिभासी भेदो भिन्नः स्वभावः। तद्वयावृत्त्याऽर्थान्तरव्यावृत्त्या यथोक्तन्यायेनार्थाद् गम्यमा- 93a नया। गतो च बुद्धो भागो वस्तुन इत्युक्त इत्यध्याहारः। व्यावृत्तवस्तुदर्शनद्वारायातत्वाद् वस्तुरूपत्वेनाध्यवसायाच्च वस्तुभागो गत इत्युच्यत इत्यभिप्रायः । एतदुक्तम्भवति (1) अंतत्परामर्शजननेभ्यो व्यावृत्तरूपन्तत्परामर्शजननेष्वारोपितैकत्वं विकल्पबुद्धिप्रतिभासनमेवाकारमविभक्तबाह्याध्यात्मिकभेदं शब्द: प्रतिपादयति शाब्दे ज्ञाने तस्यैव प्रतिभासनात् । तञ्च प्रतिपादयन्नन्यव्यावृत्तिमर्थादाक्षिपति (1) अतोनेनाभिप्रायेणोक्तमा चार्ये णान्यव्यावृत्त्या गम्यते तस्य .. वस्तुनः कश्चिद् भाग इति। न पुनरन्यव्यावृत्त्या शब्दार्थभूतया विशेषणरूपया बाह्यस्य वस्तुनः कश्चिद् भागो गृह्यतेऽन्यव्या वृत्तेरेवाभावादिति । एवन्तावदन्यव्यावृत्त्या गम्यते तस्य वस्तुनः कश्चिद् भाग इत्येतत्समर्थितं। अधुना शब्दार्थान्तरनिवृत्तिविशिष्टानेव भावानाहेत्येतत्समर्थयन्नाह । तद्गतेरित्यादि। तद्गतेरन्यनिवृत्तिगतेस्तदुपाधित्वादस्ति भेदोपाधित्वात् (1) स एव
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy