________________
२५० प्रमाणवात्तिकस्ववृत्तिटोका (१।१२६) |
न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥१२९॥ 457a अरूपो रूप'वत्त्वेन दर्शनं बुद्धिविसवः।
निवेश्यमानः शब्द प्राक्षिप्ततदन्यव्यावृत्तिरसावपि यस्माद् भिद्यते तन्निवर्त्य भिद्यमानानां समानरूपप्रतिभासी भेदो निर्दिष्टः। अर्थान्तर व्यावत्यातस्य
स्वबुद्धया रज्यते येन विशेष्यन्तद्विशेषणं । न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनं । विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ।। न चान्यरूपमन्यादृक् कुर्याज्ज्ञानविशेषणं। . कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणं । अभावगम्यरूपे च न विशेष्येस्ति वस्तुता।
विशेषितमपोहेन वस्तु वाच्यं न तेस्त्यत (:॥)"१ इत्यपास्तं।
नन्वेकस्य शब्दस्य कुथं विधिप्रतिषेधलक्षणं व्यापारद्वयम् (1) आह ।
न चापि शब्दो द्वयकृत् । स्वार्थाभिधानमन्यव्यावर्त्तनं च द्वयं करोति (1) किडकारणम् (1) अन्योन्याभाव इति । इतिशब्दो हेतौ। यस्मादवृक्षभेदाभावो वृक्षार्थस्तदभावश्चावृक्षार्थ इतरेतराभावत्वेन । तस्माद् वृक्षशब्दाद् वृक्षार्थप्रतिपत्त्यैवार्थाद् अवृक्षनिवृत्तिप्रतिपत्तिरपि भवतीति न द्वौ व्यापारौ साक्षाच्छब्दस्य। तेन।
“यदि गौरित्ययं शब्दः समर्थोन्यनिवर्त्तने। जनको गवि गोबुद्धेर्मु ग्यतामपरो ध्वनिः ।। न च ज्ञानफलाः शब्दा न चैकस्य फलद्वयं ।
अपवादविधिज्ञानं फलमेकस्य वः कथम् (1)" इति निरस्तं। .. यदि शब्दवाच्यो भेदस्सर्वत्रानुयायी तदेव तर्हि पारमार्थिक सामान्यम्भविष्यतीत्यत आह । असाविति शब्दविषयोनुयायी भेदः अरूपो निःस्वभावः। तस्मिन्नरूपे दृश्यविकल्पयोरेकीकृत्य वक्तृश्रोत्रोर्यदूपवत्त्वेन दर्शनन्तबुद्धिविप्लवो भ्रान्तिरित्यर्थः।
निवेश्यमान इत्यादिना व्याचष्टे। यस्माद् भिद्यते वृक्षादिकोर्थस्तनिवर्त्य
1 Slokavārtika.
Ibid.