________________
२४६
४. सामान्यचिन्ता कश्चिद् भाग इति प्रोक्तं रूपं नास्याऽपि किश्चन । तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्त्तनम् ॥१२८॥ न तत्र गम्यते कश्चित् विशिष्टः केनचित् परः ।
दवृक्षाद् घटादेभिद्यते विनिव]त स वृक्षन्त्यक्त्वेत्यर्थः। निवेशनं संकेतकरणं वृक्षशब्दस्य द्रष्टव्यं । तम्विनिवृत्त्येत्यनेनावृक्षे वृक्षशब्दो न संकेत्यत इत्युक्तम्भवति। क्व पुनस्तन्निवेशनमित्याह। भेदे भिद्यमानानां वृक्षाणां यस्तभेदस्तस्मादवृक्षाद् भेदः। अवृक्षाद् भिन्नः स्वभावः। यथैव ह्येको वृक्षविशेषस्त स्माद् वृक्षाद् भिन्नस्तथा सर्वे वृक्षभेदाः।
ततस्तेष्वसौ तद्भेदो विकल्पबुद्ध्या सर्वेष्वेकत्वेनारोप्यत इति समानाकारभासी भवति । तस्मिन् समानाकारभासिनि तद्भेदे भिन्नस्वभावे निवेशनं शब्दस्य । स चायमिति चशब्दोवधारणार्थः। स एवायम्विकल्पप्रतिभास्याकारो बाह्याभिन्नः।
यद्वा स एव तद्भेदोऽवृक्षाद् भिन्नस्वभावलक्षणः प्रोक्त आचार्य दिङ ना गेन। कथं प्रोक्त इत्याह । अन्यव्यावृत्त्या गम्यते तस्य वस्तुनः कश्चिद् भाग इत्यनेन । अस्य चार्थम्वृत्तौ व्यक्तीकरिष्यामः ।
नन्वन्यव्यावृत्त्या विशिष्टो वस्तुभागः परमार्थत एव कस्मान्न गृह्यत इत्याह ।' रूपं स्वभावो नास्यापि भेदस्य किञ्चन निवृत्तिरूपस्य भेदस्यासत्त्वात् । विकल्पप्रतिभासिनश्च बुद्धिवि भ्रमात् ।
यदि भेदस्य न रूपं किञ्चन कथन्तर्हि शब्दोन्यव्यावृत्तिविशिष्टानेव भावानाहेत्युच्यत इत्यत आह। तद्गतावित्यादि। तस्य यथोक्तस्य भेदस्य विजातीयव्यावृत्तस्य स्वभावस्य विधिरूपेण गतावेव शब्देभ्यो गम्यतेन्यनिवर्तनं । (११२७।)
. तथा हि वृक्ष इत्युक्तेऽर्थादवृक्षनिवर्तनं प्रतीयते । एतावन्मात्रेण चान्यव्यावृ:त्तिविशिष्टत्वमुक्तं। न तु परमार्थतो विशेषणविशेष्यभावः । तदाह। नेत्यादि। तत्रेत्यन्यापोहे शब्दार्थे आ चार्य ग्रन्थे वा । कश्चित् पर इत्यन्यस्माद् व्यावृत्तोर्थः । केनचिदन्यव्यावृत्तिलक्षणेन विशिष्टो न गम्यत इति। तेन यदुच्यते भट्टे न ।
"न चासाधारणम्वस्तु गम्यतेऽपोहवत्तया। कथं वा परिकल्प्येत सम्बन्धो' वस्त्ववस्तुनोः ।। स्वरूपसत्त्वमात्रेण न स्यात किञ्चिद्विशेषणं ।
92b
३२