________________
92a
२४८.
प्रमाणवात्तिकस्ववृत्तिटीका ( १।१२७ )
शब्दप्रयोग कुतश्चित् निवत्त्यं कुत्रचित् निवेशनात् श्रर्थवत्ता, तत्साफल्यात् । निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् ॥ १२६ ॥ तद्भेदे भिद्यमानानां समानाकार भासिनि । स चायमन्यव्यावृत्या गम्यते तस्य वस्तुनः ॥ १२७॥
तिरिक्तस्य चाङ्गिनोनभ्युपगमादनर्थकः स्यादिति ।
तदयुक्तं । यतोन्य एवैकादिबुद्धिविषयाभावा अन्ये च समुदायादिबुद्धिविषयाः प्रतिभासन्ते । ये च विशिष्टावस्थाः समुदायादिबुद्धिविषयास्त एवाङ्गिन उच्यन्तेन्यस्याङ्गिनो निषेधात् । यादृग्भूताश्च ते परेण समुदायादिधर्मारम्भका इष्यन्ते तादृग्भूता एवास्माभिः समुदायबुद्धिजनकत्वेन तदालम्बना इष्यन्ते विरोधाभावात् । तेन सर्वसमुदायद्वित्वादिशब्दानामेकादिनिषेधो घटत एव ।
तस्मादित्यादि । यतः सर्वं वाक्यं सावधारणम्वाक्यस्थानामेव पदानामर्थ - वत्ता । तस्मात् सर्वशब्दप्रयोग इत्युपसंहारः । तत्साफल्यात् तस्य शब्दप्रयोगस्य साफल्यात्। एवं सर्वशब्दानां यथोक्तविधिनाऽन्यापोहे वाच्ये ।
यदुक्तम्भ' ट्टो द्योतक राभ्यां ।
·
“ अन्यापोहश्च किम्वाच्यः किम्वाऽवाच्योयमिष्यते । वाच्योपि विधिरूपेण यदि वान्यनिषेधतः ॥ विध्यात्मनास्य वाच्यत्वे त्याज्यमेकान्तदर्शनं 16 सर्वत्रान्यनिषेधोयं शब्दार्थ इति वणितं ॥ अनपोहव्युदासेन यद्यपोहोभिधीयते । तत्र तत्रैवमिच्छायामनवस्था भवेत्तव ॥ अथाप्यवाच्य एवायमन्यापोहस्त्वयेष्यते । तेनान्यापोहकृच्छब्द इति बाध्येत ते वचः ।। यस्माद् येष्वेव शब्देषु नञ, योगस्तेषु केवलः । भवेद्रन्यनिवृत्त्यंशस्स्वात्मैवान्यत्र गम्यत" इति ॥
तदयुक्तं । विधेः शब्दार्थस्यार्थादन्यनिषेधस्याभ्युपगमात् ।
यदि तर्हि विधिरेव शब्दार्थोर्थादन्यनिषेधः ( 1 ) कथन्तह्याचार्य दिङ ना गे न “शब्दोर्थान्तरव्यावृत्तिविशिष्टानेव भावानाहे" त्याद्युक्तं (1)
न विरुध्यत इत्यत आह । निवेशनं चेत्यादि । अनेन चैतद्दर्शयति (1) संकेतेपि तावद् विधिरूपेण शब्दः प्रवर्त्तते किं पुनर्व्यवहार इति । यो वृक्षार्थो यस्मा
1 Slokavārtika.