________________
४. सामान्यचिन्ता
२४७ घटादिशब्दानामपि न किंचिद् । प्रकरणे श्रवणादेव यापि प्रतिपत्तिः साऽपरिसमाप्ततदर्था दृष्टप्रयोगविषयानुसारेण साकांक्षत्वात्। तदर्थविप्लवः घटादिपदग्रहात्। तादृशो ज्ञेयादिशब्देष्वपि यथादर्शनं अस्त्येव। तस्मात् सर्व
क्रियाविशेषणमेतदित्यपरे। प्रश्नक्रिया हि विशेष्या। क्रियाविशेषणानाञ्च कर्मत्वमिति। अत्र च यदि कर्मधारयसमासस्तस्य स्वपदार्थवृत्तित्वात्कथन्तेन प्रश्नक्रियाविशेषितेति वक्तव्यं । ___ अथानिर्दिष्टः प्रयोगो यस्मिन् ज्ञेयशब्द इति बहुब्रीहिस्तदापि शब्दो विशेषितो न क्रिया। यदा त्वेवम्विग्रहोऽनिर्दिष्ट: प्रयोगो यस्मिन् प्रश्न इति तदा भवति क्रियाविशेषात् तदापि प्रश्नशब्दसामानाधिकरण्यात् सप्तम्येव युक्ताऽनिर्दिष्टप्रयोगे प्रश्न इति। किङ्कारणं केवलस्य ज्ञेयशब्दस्यार्थो नेति चेदाह। तत इति (1) ततो ज्ञेयशब्दात् क्वचिद् (अपि न) वस्तुप्रतिपत्तेः । विधिप्रतिषेधफले व्यवहारे 'च केवलस्य ज्ञेयशब्दस्य प्रयोगाभावात् कुतोर्थप्रतिपत्तिः। यदादिशब्दोऽनित्यादिरूपेण किं ज्ञेयो भवत्यथाज्ञेय इत्येवं प्रक्रान्ते ज्ञेय इति केवल: प्रयुज्यते। तदापि यार्थप्रति पत्तिः सा प्रकृतं शब्दादपदमपेक्ष्य भवन्ती वाक्यादेव जायते। पदान्तरसहितस्य पदस्य वाक्यत्वात्। तस्मान्नास्ति पदान्तरनिरपेक्षात् पदार्थप्रतिपत्तिः । यथा ज्ञेयादिपदानां केवलानां न किंचिद्वाच्यं तथा घटादिशब्दानामपि केवलानां ।
ननु च किं घटेनोदकमानयाम्यथाञ्जलिनेति प्रस्तावे। घटेनेति प्रयुक्ते। तत्र च यः प्रकरणं न ज्ञातवान् तस्यापि प्रतिपत्तुर्घटेनेति केवलशब्दश्रवणाद् घटाकारा प्रतिपत्तिरुत्पद्यत एवेति कथमुच्यते केवलाच्छब्दात् न प्रतिपत्तिरित्याह । यापीत्यादि। अपरिसमाप्तः स जिज्ञासितोर्थो यस्यां प्रतिपत्तौ साऽपरिसमाप्ततदर्था। कथमपरिसमाप्ततदर्थतेत्याह। दृष्टप्रयोगानुसारेणेति। यावत्सु नयनानयनादिक्रियाचोदना प्रवृत्तेषु। तेन घटशब्दस्य प्रयोगो दृष्टस्तदनुसारेण तावत्सु पूर्ववाक्येष्वाकांक्षावती प्रतीतिर्भवति किमयमों विवक्षितः किम्वायमित्येवं साकांक्षत्वादुपप्लवमानं रूपत्वेनासमाप्तार्था विप्लवभ्रान्तिरेव । एतत्कथयति (1) नैव केवलशब्दमात्रश्रवणादर्थप्रतिपत्तिरस्ति किन्तु वाक्येषूपलब्धस्यार्थवतः पदस्य सादृश्येनो पहृतबुद्धेः केवलशब्दश्रवणादर्थप्रतिपत्त्यभिमान इति। यथा दृष्टप्रयोगानुसारेण केवलघटादिपदश्रवगादर्थप्रतिपत्तिविप्लवस्तादृशो ज्ञेयादिशब्देष्वपि (1). यथादर्शनं। यथाप्रयोगोपलम्भं। यावत्सु वाक्येषु ज्ञेयशब्दः प्रयुज्यमानो दृष्टस्तदनुसारेण केवलज्ञेयशब्दश्रवणादस्त्येवार्थप्रतिपत्तिविप्लवः। अनेन सर्वथा घटादिशब्दशैयादिशब्दानान्तुल्यतामाह ।
यच्चाप्युक्तम् (1) “एकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दाङ्गे प्रतिषेधादङ्गव्य