________________
२४६
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२५)
तत्संस्कारायैव शब्दानां कृतसंकेतत्वात । ज्ञेयादिशब्दाश्चाव्यवहारानुपनीता न किञ्चिद्। वाक्यगतस्य तदर्थप्रतिपादकत्वात्। क्व तत्प्रयोग इति चेत् प्रयोगविषयचिन्तायां अन्यापोह इत्यच्यतेः। अनिर्दिष्टप्रयोगमित्यादिशेयशब्दस्य कोर्थ (इति) प्रश्नस्य न कश्चिदर्थः। ततः क्वचिदपि न प्रतिपत्तः। तथा
निश्चयवान् तदा परस्माद् वक्तुः किमुपदेशमपेक्षते। नैवेत्यभिप्रायः। आकांक्षापनयनं श्रोतृसंस्कारस्तद् यत्र वचने नास्ति तदा श्रोतृसंस्कार तथाभूतं च वचनं कुर्वाणो वक्ता कथं नोन्मतः स्यात् । तस्माद् वक्ता श्रोतुराकांक्षावतः संस्कारमेवाधित्समानः शब्दं प्रयुक्ते। किं कारणं (1) तत्संस्कारायैव श्रोतृसंस्कारायैव शब्दानां कृतसंकेतत्वात्।
भवतु नाम वाक्यस्थानां व्यवहारार्थमुपनीतानां ज्ञेयादिशब्दानां यथोक्तं व्यवच्छेद्यं । ये त्वव्यवहारोपनीताः केवला एव ज्ञेयादिशब्दास्तेषु कथं । न हि तत्र प्रतिपत्तुराशङकास्थानमस्तीत्यत आह। अव्यवहारोपनीताश्चेत्यादि। वा क्येष्वनन्तर्भूतो वाचक: शब्दो नास्तीत्यर्थः। यतो वक्ता फलार्थी प्रथमन्तावदिममर्थम्विशिष्टक्रियासम्बद्धमनेन शब्देनास्मै प्रतिपादयामीत्यभिप्रायेण "देव
दत्त गामानये"त्येवं प्रयुक्ते। तेन क्रियान्वितानामेव पदार्थानामभिधानं। न त्व9ra भिहितानाम्पदार्थानाम्पश्चादन्वयः। गामित्यादौ कर्मादिविभक्तेरनुत्पादप्र'सं
गात्। तस्माद वाक्यस्थानामेव प्रयोगः। तदेवाह। वाक्यगतस्येत्यादि। तस्यैवार्थप्रतिपादकत्वादिति भावः। __ ये तु वै या क र णैः सर्वविश्वेत्यादिगणेषु पठ्यन्ते। प्रकृतिप्रत्ययविभागेन वा संस्क्रियन्ते। तथा नि रु क्त कारैः (1) तेपि रेखागवयस्थानीया वाक्यस्थानामेव प्रतिपत्त्युपाया द्रष्टव्या न तु तेषां लौकिकः कश्चिदर्थोस्ति। तस्मात् वाक्यस्थानामेव पदानामर्थवत्ता। तत्रैव चावस्थितानामर्थचिन्ता क्रियते। तदाह । क्व पुनरित्यादि । एत इति ये वाक्यस्थाः प्रयोगविषयचिन्तायां प्रवर्त्तमानायामन्यापोहः शब्दार्थ उच्यते। अन्योऽपोह्यतेऽनेनेति कृत्वा। ये त्वप्रयोगस्था ज्ञेयादिशब्दास्तेषामर्थासम्भवाच्चिन्तैव नास्तीत्याह। अनिर्दिष्टप्रयोगमित्यादि। निर्दिष्ट उपात्तस्तथा चासौ प्रयोगश्चेति कर्मधारयः। पश्चान्नञा सहाभावार्थेऽव्ययं विभक्तीत्यादिनाऽव्ययीभावः। ततश्च सप्तम्यास्तृतीया सप्तम्योर्बहुल' मित्यम्भावः । उपात्तप्रयोगाभावे सति वाक्येनपनीतस्य केवलस्य ज्ञेयशब्दस्य कोर्थ इति प्रश्न इत्यर्थः ।
1Panini.