________________
४. सामान्यचिन्ता
- २४५
एवं श्रानयनं श्रन्यद् वा ऽनुष्ठानाननुष्ठानं किञ्चिद् यद्यभिमतं स्यात् । तदा श्रानयेत्यपि न ब्रूयात् शब्दार्थाभावात् । तथा ज्ञेयादिशब्दानां व्यवहारोपनीतानामपि केनचिद् व्यवच्छेद्येन ? भाव्यम् । श्रनन्याशंकायां प्रयोगायोगात् । 456, तत्र हि यदेव मूढमतेराशंकास्थानं तदेव निवर्त्यम् । श्रनाशंकमानो वा श्रोता किमुपदेशमपेक्षते । अभूतं च वचनं कुर्वाणः वक्ता कथं नोन्मत्तः स्यात् ।
एतदेवाह । एवमानयनमित्यादि । अन्यद्वा किञ्चिदनुष्ठानमिति । आनयनादन्यत् । किम् (1) भोजनाद्यनुष्ठानं । अननुष्ठानं चेति व्यापाराकरणमनानयनं च
भिमतं स्यात्तदा क्रियापदमानयेत्यपि न ब्रूयात् । नयनमन्यद्वेति क्वचित् पुस्तके पाठ: सत्व (? त्व) युक्तः । आनयनशब्दस्य प्रक्रान्तत्वात् । तस्माद् व्यवहारोपनीतानां घटादिशब्दानामस्ति व्यवच्छेद्यो यथा तेषान्तथा व्यवहारोपनीतानां ज्ञेयादिशब्दानां केनचिद् व्यवच्छेद्येनाज्ञेयादिना ।
अनन्याशङ्कायामित्यज्ञेयत्वादेराशङ्काऽन्याशङ्का । तदभावोनन्या शंका । असत्यामज्ञेयत्वाद्याशङ्कायामित्यर्थः । तथा ह्यनित्यादि ' रूपेणाज्ञेयः शब्द इत्या- gob शंकायामिदं प्रयुज्यतेऽनित्यादिनाकारेण ज्ञेय इति । तत्रानित्याद्याकारेण यदज्ञेयत्वमाशंकितं तदेव व्यवच्छिद्यते । एवं ज्ञेयास्सर्वपदार्थास्सर्व (ज्ञ) ज्ञानस्येत्यत्रापि सर्वज्ञ ज्ञानापेक्षया यदज्ञेयत्वमाशंकितन्तदेव व्यवच्छेद्यं । तथा कश्चिदाह । निरुपाख्यानामभावात्तत्र ज्ञानस्य वृत्तिर्नास्ति तस्मादज्ञेयास्त इति । 1 अत्राप्यज्ञेयत्वमारोपितन्तदेव व्यवच्छेद्यं । सर्वाभावो न भवतीत्येवमभावस्यापि विषयीकरणात् । एवमन्यत्रापि ज्ञेयशब्दप्रयोगे वाच्यं । तथा प्रमेयशब्दे । तथा "क्षणिकास्सर्वे संस्कारा” इत्यत्रापि सर्वस्य दीपादेरेव क्षणिकत्वं कैश्चित् कल्पितन्न सर्वस्य (1) तद्वयवच्छेदेन सर्वसंस्काराणामनित्यत्वं । एवं कश्चिदागतः किम्वा सर्वं एवेत्याशङ्कायां सर्वो ग्राम आगतः । इति कस्यचिदेव यदागमनमाशंकितन्तदेव व्यवच्छेद्यं । तथा समुदायालम्बनाः पञ्च विज्ञानकाया इति चैकदेशालम्बना इत्येकदेशालम्बनत्वं निषिध्यते । एवमन्येष्वपि द्वयादिशब्देषु व्यवहारोपनीतेषु प्रकरणवशाद् यथायोगं व्यवच्छेदो
वक्तव्यः ।
अयमत्र समुदायार्थः ( 1 ) न वस्तुभूतं प्रतियोगिनम्भिन्नबुद्धिग्राह्यं राशिद्वये - ऽवस्थाप्याऽन्यापोहः शब्देन चोद्यत इत्युच्यते । किन्तु यः श्रोत्रा तथाभूतेप्यतथाभूत . आकार आरोप्यते सोपि व्यवच्छेद्य एव शब्देनेति ।
एतदेव स्फुटयन्नाह। तत्र हीत्यादि । यदेव मूढमतेः प्रतिपाद्यस्याशंकास्थानमाशंकाविषयः । तदेव ज्ञेयादिशब्दानां निवत्र्त्यं । श्रोत्रा नैव कश्चिदाशकित इति चेदाह । अनाशङ्कमानो वेत्यादि । यद्यसौ न किञ्चिदाशङ्कते । यथाभूत