________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२५ )
शब्दं हि सर्वः अन्वयव्यतिरेकाभ्यां नातिवर्त्तते । तस्य प्रवृत्तिनिवृत्तिफलत्वात् । यदि श्रयं कस्यचिद् कुतश्चिद् बुद्धि न निवर्त्तयेत्, श्रनिवर्त्य च यथाऽनुज्ञानात् सर्वव्यवहारेषु न किञ्चिद् व्यवहरेत्, व्यवहारस्यावधारण' नान्तरीयकत्वात् । यथा घटेनोदकमानये इति । यदि घटेन सह उदकस्य कथमपि श्रवश्यं श्रानयनमिच्छेत् । उदकमानयत्येव वाच्यं स्यात् । न घटेनेति । तथाऽञ्जलिनाऽन्येनापि कथञ्चिदानयनमभिप्रेतं स्यात् । श्रानयेत्यनाक्षिप्तकरणकर्मकमेव वाच्यं स्यात् ।
२४४
goa देषु । किविशिष्टेषु ( 1 ) व्यवहारोपनीतेषु । विधिप्रतिषेधलक्षणः शाब्दो व्यवहारस्तदर्थमुपनीतेषु। लौकिकप्रयोगस्थेष्विति यावत् । तेषु व्यवहाराङ्गेषु यथाकथंचिद् व्यवच्छेद्योस्ति कश्चित् ।
एतदुक्तम्भवति । यत्परश्च शब्दः स शब्दार्थ इति विधायकस्यापि वाक्यस्य व्यवच्छेदपरत्वाद् व्यवच्छेदोपि शब्दार्थ उच्यते इति न काचित् क्षतिः ।
शब्द हीत्यादिना व्याचष्टे । सर्वः पुमान् लौकिकः परीक्ष को वा कस्मान्नातिवर्त्तत इत्याह । तस्येत्यादि । तस्य शब्दस्य प्रवृत्तिनिवृत्तिफलत्वादिति कुतश्चिन्निवर्त्य क्वचित् प्रवृत्त्यर्थत्वादित्यर्थः । इतरथा शब्दप्रयोगो विफलः स्यात् । तदाह । यदीत्यादि । अयम्वक्ता कस्यचित् प्रतिपाद्यस्य कुतश्चिदनभिमतान्न निवर्त्तयेद् बुद्धिमनिवभिमते च क्वचिन्न प्रवर्त्तयेत् तदा यथाभूतानुज्ञानादिति शब्दप्रयोगात् पूर्वं प्रतिपत्तुर्यथा संप्रमुग्धरूपोर्थस्तथाभूतस्य शब्देनाननुज्ञानात् । यथाकथंचिद् यादृशस्य तादृशस्यानुज्ञानादित्यर्थः । सर्वव्यवहारेषु न किंचिद्वचनं व्यवहरेदुच्चारयेत् । किङ्कारणं (1) शब्दव्यवहारस्यावधारणनान्तरीयकत्वात् ।
एतदेव साधयन्नाह । यथेत्यादि । " अत्र ह्युदकमानये" त्युक्ते श्रोतुः करण -- विशेषेऽवश्यमाकांक्षा भवति तत्र च नियमार्थं “घटेने "त्युच्यते । सोयं घटो नेति शब्दः स्वार्थाभिधानपुरस्सरमेव करणान्तरव्यवच्छेदाक्षेपात् फलवान् भवत्यन्यथा सत्यपि घटशब्दप्रयोगे यदि नाञ्जलिना तथान्येनापि करणेनोदकानयनं यथाकथंचिदिति । अल्पप्रमाणं बहुप्रमाणं वा जलानयनमभित्रेत मित्यर्थः । उदकशब्दोपि कर्मान्त -- व्यवच्छेदेन यदि विशिष्टे कर्मणि न प्रवर्त्तकस्तदा तस्यापि प्रयोगोनर्थक इत्याह । तथेत्यादि । आनयेत्येव केवलम्वचनं स्यात् ( 1 ) किंभूतमनाक्षिप्तकरणकर्मकं । अनाक्षिप्तविशेषणानाश्रितं करणं घटाख्यं कर्म चोदनाख्यं यस्मिन्नानयेत्येतावति वचने तत्तथोक्तं । तथानयेत्यस्मिन् व्यापारेभिमुखीभूतः पुमान् । आनयेत्यनेन यद्यानयनादन्यस्माद् व्यापारान्न व्यवच्छिद्येत तदाऽनयेत्यपि न वाच्यं स्यात् ।