________________
४. सामान्यचिन्ता
२४३ यतो न व्यवच्छेद्यते ज्ञेयत्वं हि किञ्चित् । ततो भेदविषयीकरणं तस्य ज्ञेयत्वादि"ति चेत् । नैष दोषः। एवं--
कचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥१२४॥ बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थोऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादिपदेष्वपि ॥१२५।। व्यवहारोपनीतेषु व्यवच्छेदोऽस्ति कश्चन ।
न्तावत् करोति । भवतु नामेत्यादि। कस्मात्तत्रार्थान्तरव्यवच्छेदो नास्तीत्याह । न द्यज्ञेयमित्यादि । यत इश्त्यज्ञेयात । अज्ञेयं कस्मान्नास्तीति चेदाह। तत इत्यादि। अज्ञेयाद् विज्ञेयस्य भेदेन विषयीकरणमङ्गीकर्त्तव्यमन्यव्यवच्छेदवादिनाऽन्यथा कथमज्ञेयात् ज्ञेयस्य व्यवच्छेदः । ततश्चाज्ञेयात् ज्ञेयस्य भेदेन विषयीकरणे सत्येव तस्याज्ञेयाभिमतस्य ज्ञेयत्वात् । न ह्यविषयीकृताद् व्यवच्छेदः शक्यो दर्शयितुं । आदिशब्दात् सर्वसमुदायद्वयादिशब्दानां ग्रहणं ।
तदुक्तम्भ ट्टो द्यो त क रा भ्यां । अन्यापोहश्च शब्दार्थ इत्ययुक्तमव्यापकत्वात् । यत्र द्वैराश्यम्भवति तत्रेतरप्रतिषेधादितरः प्रतीयते यथा गौरिति पदेऽगोः प्रतिषेधेन गौः प्रतीयते। ___ न पुनः सर्वपद एतदस्ति । न ह्यसर्वन्नाम किंचिदस्ति यत्सर्वशब्देन विनिवत । अथ मन्यसे एकाद्यसर्वं तत् सर्वशब्देन निवर्त्यते। तत्र स्वार्थापवाददोषप्रसङ्गात् । एवं हि सत्येकादिव्युदासेन प्रवर्त्तमानः शब्दः । अङ्गप्रतिषेधादङ्गव्यतिरिक्तस्य चाङ्गिनोनभ्युपगमादनर्थक: स्यात् । एवं सर्वसमुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तसमुदायानभ्युपगमादनर्थकाः प्राप्नुवन्ति। द्वयादिशब्दानां च समुच्चयविषयत्वादेकादिप्रतिषेधे प्रतिषिध्यमानानामसमुच्चयत्वात् । द्वयादिशब्दानामनर्थकत्वमिति।
‘नैष दोष इत्याचार्यः। यस्मादाकांक्षावतीं बुद्धि कुतश्चिग्निवर्त्य तस्या बुद्धः क्वचिद्विनियतेऽर्थे निवेशनायाकाङक्षाक्तः पुंसः कश्चिच्छब्दः प्रयुज्यते प्रतिपादयित्रा। क्वचिन्निवेशनायेत्यनेनान्वय उक्तः । कुतश्चिद्विनिवत्यैत्यनेन व्यतिरेकः ।
किङ्कारणं कुतश्चिन्निवर्त्य क्वचिन्निवेश्यते शब्द इत्यत आह । तदर्थस्येत्यादि । शब्दार्थस्यावधारणात्। अन्यथा यदि तेन शब्देन न कश्चिदर्थो व्यवच्छिद्येत व्यर्थः शब्दप्रयोगः स्यात् । यत एवन्तस्माज्ज्ज्ञयादिपदेष्वित्यादिशब्दात् सर्वविश्वादिप
1 Cun-zad-kyan,
P.V. व्यवच्छेद्यो ।