________________
"-२४२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२३) न युज्यते। तस्य व्यतिरिक्तस्य शाखादिप्रतिभासस्य दण्डवद् दण्डिनि अग्रह
णात्। अपरस्मात् प्रविभागेनागृहीतस्य अनुपलक्षणात्।। 456a प्राकृतेरेकत्र दृष्टाया अप्यन्यत्र द्रष्टुमशक्यत्वात्, तदतद्वतो वृक्षावृक्षत्वे' व्यक्तिरेकैव वृक्षः स्यात्।
"भवतु नाम घटादिशब्दे अर्थान्तरव्यवच्छेदः । न ह्यज्ञेयमित्यादिवाक्ये तथा।
ताभ्यां न विनापोहे धीन चासाधारणेन्वयः ।
अपोहश्चाप्यप्रसिद्धोऽव्यभिचारः क्व कथ्यतां।
तस्मिन्नविद्यमाने च न तयोः स्यात्प्रमाणते"ति (1) अपास्तं । यत एकस्मिन्नन्यव्यावृत्ते स्वलक्षणे शब्दलिङ्गाभ्यां सम्बन्धम्प्रति- . पद्यमानोप्यन्यत्राप्येवंरूपेषु सम्बन्ध प्रतिपद्यत एवैकत्वाध्यवसायादिति कुतोन्वयरहितत्वादिदोष इति। वस्तुभूतन्तु सामान्यमाश्रित्य वृक्षावृक्षविभागो न घटते । तदाह (1) न पुनरित्यादि। एकम्वस्तु सामान्यं दृश्यमुपलब्धिलक्षणप्राप्तन्तत्र स्वलक्षणेष्वस्ति। यथा वृक्षभेदेभ्यो घटादयो भिन्नास्तथा धवादयोपि (1) परस्परन्तेषाम्भिन्नानान्दर्शनेपि यस्य सामान्यस्य दर्शनादर्शनाभ्यां वृक्षावृक्षविभागं कुर्वीत यत्रेदं सामान्यं दृश्यते स वृक्षो यत्र न दृश्यते सोऽवृक्ष इति । ____ कस्मान्नास्तीत्याह। तस्येत्यादि । सामान्यस्य व्यतिरिक्तस्य शाखादिप्रतिभासाद् विभागेनाग्रहणात् । न हि वृक्षादिषु द्वौ प्रतिभासावुपलभ्येते। एकः शाखाद्याकारोऽपरश्चाशाखाद्याकारः। न च शाखाद्याकार एव सामान्यं प्रतिभासत इति शक्यम्वक्तुन्तस्य शाखाद्याकारत्वात्। दण्डवद्दण्डिनीति वैधर्म्यदृष्टान्तः। यथा
दण्डिनि दण्डस्य भेदेन ग्रहणं। नैवं सामान्यस्य। अपरस्माच्छाखादिमतः प्रविभा89b गेनागृहीतस्य च सामान्यस्य व्यक्तिष्वनुपलक्षणात्। स्वरूपेण परस्योपल'म्भन
मुपलक्षणन्तच्च स्वयमगृहीतस्य कथम्भवेत् । अनर्थान्तरसामान्यवादिनस्त्वाकृतेरेकत्र व्यक्तौ दृष्टायाः स्वलक्षणादव्यतिरेकात्तद्वदेवान्यत्र व्यक्त्यन्तरे द्रष्टुमशक्यत्वात् । ततश्च तदततोरिति संकेतकालपरिदृष्टंकवृक्षाकृतिर्यस्यास्ति स तद्वान् । पश्चाद् व्यवहारकाले दृश्यमानो वृक्षभेदः पूर्वदृष्टवृक्षाकृतिरहितोऽतद्वान् । तयोर्यथा क्रमं वृक्षावृक्षत्वे न्यायप्राप्तत्वे सति व्यक्तिरेकैवेति संकेतकाले दृष्टव वृक्षः स्यान्न तु व्यवहारकाले दृश्यमाना। संकेतकाले दृष्टाया आकृतेरन्यत्रादर्शनात्।
अन्यापोहे शब्दार्थपरैरव्यापित्वं चोदितं तत्परिजिहीर्षवान् पूर्वपक्षदिग्मात्र
1 Slokavartika.