SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता २४१ प्रतिपत्तिमनुसृत्य एते वृक्षा इति स्वपर विकल्पषु एकप्रतिभासान् पादश्य तद्विज्ञानहेतून् भेदेन प्रतिपद्येतेत्यभिप्रायेण' अतद्धतुभ्योऽभिन्ने नियुङ्क्ते। ततः तमध्यस्य प्रतिपद्यमाना बुद्धिः व्यभिचारवशादेव एकवस्तुग्राहिणीव प्रतिभाति। तेषां भिन्नानां दर्शनेऽपि यस्य दर्शनादर्शनाभ्यां वृक्षावृक्षविभागं कुर्वीतेति अविभक्तबाह्याध्यात्मिकभेदानित्यनेनैकरूपानित्येतद् व्याचष्टे । अविभक्तो बाह्याध्यात्मिकभेदो येष्विति विग्रहः । दृश्यविकल्पयोरेकीकरणेन गृहीतामित्यर्थः । यस्मै संकेतः क्रियते स प्रतिपत्ता। प्रतिपत्तिमनुसृत्य। संकेतकाले यादृशी तस्य प्रतिपत्तिः । अहेतुरूपविकला एककार्या भावा एकरूपा येष्वयं वृक्षशब्दः संकेतितस्त एवामी (1) तस्माद् वृक्षा इत्येवमाकारा। तामनुसृत्य । तां स्मृत्वा। विकल्पविज्ञाने स्थितस्सन्। तान् यथोक्तान् भावान् तद्विज्ञानहेतूनतद्विपरीतेभ्यो भेदेन । एते वृक्षा इति व्यवहारकालेपि वृक्षशब्दश्रवणात् कथन्नाम प्रतिपद्यतेत्यनेनाभिप्रायेणाक्तमतद्धतुभ्यो भेदव्यवच्छिन्ने स्वभावे विकल्पेन विषयीकृते नियुक्ते संकेतस्य कर्ता । (११२३॥) ननु व्यावृत्तस्य स्वलक्षणस्य व्यवहारकालेनुगमो नास्ति (1) नापि विकल्प- 89a प्रतिभासिनः सामान्याकारस्य स्वज्ञानाभिन्नत्वाद् विकल्पान्तरेन्वयोस्ति। नापि वक्तृसम्बन्धिनस्तस्य श्रोतुः श्रोतृसम्बन्धिनो वा वक्तुः प्रतीतिरन्यचेतोधर्मत्वेनातीन्द्रियत्वात् । न चाप्रतिपन्ने समं प्रतिपाद्यप्रतिपादकाभ्यां संकेतः सम्भवतीत्याह। स्वपरेत्यादि। स्वस्य प्रतिपादकस्य परस्य च प्रतिपाद्यस्य विकल्पेष्वेककार्यकरणलक्षणेन भ्रान्तिनिमित्तेनैकप्रतिभासान् भावान् संकेतविषयानादये। एतदुक्तम्भवति । यथैकस्तैमिरिको द्विचन्द्रन्दृष्ट्वान्यतैमिरिकायोपदिशन् स्वदृष्टमेवोपदिशति न परदृष्टमप्रत्यक्षत्वात्। अथ च तस्यैवम्भवत्ययमेव मया परस्मै प्रतिपादित इति। परोपि च स्वसन्तानभाविनमेव द्विचन्द्राकारम्प्रतियन् य एव प्रतिपादकेन मम प्रतिपादितस्स एव मया प्रतिपन्न इति मन्यते। तद्वत् प्रतिपाद्यप्रतिपादकयोबुद्धयाकारस्याध्यवसितबाह्यरूपस्य भेदेप्येकत्वाध्यवसायात् संकेतकरणं व्यवहारकाले च तस्यैव प्रतीतिरेकत्वाध्यवसात्। तमित्यन्यव्यवच्छिन्नं स्वभाव स्वाकारेणाभिन्नमध्यस्य प्रतिपद्यमाना बुद्धिः । तस्या इति श्रुतेः । एकवस्तुग्राहिणीव प्रतिभाति। तेन यदुच्यते भट्टे न॥ “न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोः । 1 Tha-dad-par-hgyur-ba.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy