________________
२४० प्रमाणवात्तिकस्ववृत्तिटीका (१।१२३)
तेषां प्रकृत्यैव प्रत्ययवशात् तथाभूतस्य विकल्पस्य कारणानामन्वयात्, तद्रष्टुर्बुद्धौ विपरिवर्तमानान् तज्ज्ञानहेतु तया तदन्यव्यावृत्या च अतथाभूतानपि तथाध्यवसितान्, अविभक्तबाह्याध्यात्मिकभेदान् विकल्पव्यवस्थया
"गोशब्दानभिधेयत्वमश्वादीनां हि ते कथं । न दृष्टस्तत्र गोशब्दः संकेतसमये यदि।
एकस्मात्तर्हि ते पिण्डाद्यदन्यत् सर्वमव तत् । 88b भवेदपो ह्यमित्येवं नहि सामान्यवाच्यते"ति (1)'
तदपि निरस्तं। एकव्यक्तौ गोशब्दस्य संकेते विषयस्य व्यक्त्यंतरेनुगमात् स एवायं गौरिति प्रतीतेरिति। तथापि (1)
तेषामित्यादिना का रि कार्थमाह। तेषां विजातीयवस्तुविवेकिनामर्थानां प्रकृत्या तथाभूतविकल्पकारणानामन्वयादिति सम्बन्धः। प्रकृत्या स्वभावेन न पुनरेकसामान्ययोगात्। सर्वे तर्हि परामर्श कस्मान्न जनयन्तीत्याह। प्रत्ययवशादिति। अनुभवज्ञानं प्रत्ययस्तद्वारेण तेषां विकल्पजननात् । तथाभूतस्यैकप्रत्यवमर्शात्मकस्य विकल्पस्य कारणानामन्वयात् सद्भावाद् (।) यथैको वृक्षभेदः प्रकृत्या तथाभूतविकल्पहेतुभूतस्तथा द्वितीयादिरपीत्यनेनाकारेणान्वयो न पुनरेकम्वस्तु सामान्यात्मकमस्ति। तस्मादन्वयाद्धेतोरेककार्यवत्त्वेनैकाध्यवसाययोग्यानिति वाक्यशेषः।
तद्रष्टुरिति व्यक्तिष्वेककार्यकरणस्य द्रष्टुर्बुद्धौ विपरिवर्तमानानारूढान् । तस्माद् द्रष्टुरिति भवितव्यं । "कर्तरि चे"ति षष्ठीसमासप्रतिषेधादिति चेन्न । शेषषष्ठया विवक्षितत्वात्। द्रष्टुशब्दस्य चातृन्प्रत्ययान्तत्वात् । तत्र तृन्निति षष्ठी प्रतिषेधात् । तच्छब्दस्य द्वितीयान्तस्य साधनं कृतेति समासः । अन्ये तु तत्प्रयोजक इत्यादिनिर्देशात् प्रतिषेधसूत्रस्यानित्यत्वं ज्ञापयन्ति। एवमन्येष्वपि निर्देशेष्वेवंजातीयेष्वेवंरूपाः परिहारा वक्तव्याः। तज्ज्ञानहेतुतया तस्य विकल्पज्ञानस्य हेतुतया। तदन्यव्यावृत्त्या चेत्येकाकारप्रत्यभिज्ञानहेतुभ्यो येऽन्ये तथाभूतविकल्पाऽहेतवः। तेभ्यो व्या वृत्त्या च। अतथाभूतानपि न हि ते विकल्पारूढास्तद्धेतवो बहिरविद्यमानत्वात्। अत एवाहेतुरूपविकल्पत्वमप्यसत्तेषामवस्तुसत्त्वात् । तथाध्यवसितान्। तज्ज्ञानहेतुतया तदन्यव्यावृत्त्या चारोपितान् । अनेन भातोहेतुतया धियः। अहेतुरूपविकलानिवेति व्याख्यातं ।
1 Slokavārtika.