________________
४. सामान्यचिन्ता
२३६ प्रागपि निवेदितमेतत् भावाः प्रकृतिभेदिनः केचिदेव ज्ञानादिकं फलं कुर्वन्ति नान्ये। तान् स्वयमेव विभज्य तदतीतूंश्च प्रत्येति । तस्यतबुद्धिवर्त्तिनो भावान् भातो हेतुतया धियः ॥१२२॥ अहेतुरूपविकलानेकरूपानिव स्वयम् । भेदेन प्रतिपद्यतेत्युक्ति दे नियुज्यते ॥१२३।। (तं तस्याः प्रतियतो धीमा॑न्त्यै)कं वस्त्विवेक्षते ।
शाखादिमदाकारपरामर्शहेतून् तद्विपरीतांश्च पृथक् करोति स्वयमेव संकेतात् (1) प्रागपि निवेदितमेतद् (1) “एकप्रत्यवमर्थिज्ञानाद्येकार्थसाधनं" (११७५) इत्यत्रान्तरे। व्यतिरिक्तस्याव्यतिरिक्तस्य च सामान्यस्य निषेधान्निषेत्स्यमानत्वाच्च । भावाः प्रकृतिभेदिनः स्वभावेनैव विलक्षणाः (1) ज्ञानादिकमित्यादिशब्दाद् उदकाद्याहरणादिक केचिदेव कुर्वन्ति नान्ये (॥१२१॥)
प्रकृत्या तदतज्जननस्वभावत्वात्तेषां। तान्भावानयं प्रतिपत्ता स्वयमेव शब्दव्यापारं विना विभज्य विभागं कृत्वा तद्धेतूनतद्धतूंश्च प्रत्येति । तेन कुत इतरेतराश्रयत्वदोषः। यो हि तद्धेतूनतद्धेतूंश्च भावात्स्वयमेव प्रतिपद्यते। तस्य प्रतिपत्तुस्तबुद्धिपरिवर्तिन इत्यादि कर्मपदं प्रतिपद्यतेत्येतत् क्रियापदापेक्षं। अतद्धेतुभ्यस्तद्धेतून् विभज्य स्थापयति या बुद्धिः सा (1) तद्बुद्धिस्तत्परिवत्तिनस्तदारूढान् । विकल्पिकाया धियो हेतुतया भातो भासमानात्।
इव शब्दस्य वक्ष्यमाणस्य सम्बन्धाद्धेतुतयेवेति द्रष्टव्यं न तु ते विकल्पप्रतिभासिनो हेतवस्तेषां बहिरसत्वात्। केवलम्प्रतिपत्तुस्तथाध्यवसायादेवमुच्यते । . अहेतुरूपविकलान् भात इत्यत्राभिसम्बन्धः। इव शब्दयोगश्च पूर्ववत्। एकाकारपरामर्शबुद्धेर्ये न हेतवस्तेषां रूपेण विकलानिव। दृश्यविकल्पयोरेकीकरणाद् बाह्येन सहकरूपानिव भात इत्यत्राभिसम्बन्धः। स्वयं संकेतादुत्तरकालमपि। अतत्कारिभ्यो भेदेन तान् भावान् प्रतिपद्यतेति कृत्वा। उक्तिः शब्दो भेदे विजातीयव्यावृत्ते स्वभावे विकल्पेन स्वाकाराभेदेनाध्यस्ते नियुज्यते संकेत्यते। तम्भेदं यथोक्तं। तस्याः श्रुतेः सकाशाद् व्यवहारे प्रतियती प्रतिपद्यमाना परिधीन्त्यिा एकम्वस्त्विवेक्षते। सजातीयव्यक्तिषु तम्विजातीयव्यावृत्तं स्वभावं स्वाकाराभेदेन प्रतियती धीरेकमिव वस्तु प्रेक्षत इत्यर्थः। .. ___ ततः सर्वेष्वेकपरामर्शहेतुषु वृक्ष इति प्रतिपत्तिरतो यदुक्तं दर्शनेन प्रतिपत्तौ व्यक्त्यन्तरेपि न स्यादिति तदपास्तं ।
यच्चाप्युक्तम्भ ट्टे न॥