________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१२१ )
एकप्रत्यवमर्शज्ज्ञान एकत्र हि स्थितः ॥ १२१ ॥ प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् ।
२३८
तुल्यमेतदितीतरेतराश्रयप्रतिविधानं ।
एतदुक्तम्भवति । सर्वभावाः स्वहेतुतो भिन्ना इति पूर्वमेव प्रतिपादितं । तेन वृक्षा अवृक्षाश्च भिन्ना एव निर्विकल्पके ज्ञाने प्रतिभासन्ते ( 1 ) वृक्षेषु च विधिरूपेणैव वृक्षविकल्प उच्यते । तथाऽवृक्षेषु वृक्षनिषेधेनावृक्षविकल्प उत्पद्यत इति कुत इतरेतराश्रयत्वं ।
विधरूपेण वृक्षविकल्पस्य प्रतिपत्तिस्तथाप्यवृक्षादिव्यावृत्तिद्वारेणोत्पद्यमानत्वादवृक्षादिप्रतिपत्त्यपेक्षत्वन्ततश्च स एवेतरेतराश्रयदोषः ।
नैतदस्ति । यतोऽवृक्षादिव्यावृत्तिर्वृक्षादिस्वरूपमेव तदनुभवद्वारेणैव वृक्षादिविकल्प उत्पद्यते न त्ववृक्षादिप्रतिपत्त्यपेक्ष इति कुत इतरेतराश्रयत्वं । तत्र वृक्षविकल्पे प्रत्येकं शिशपाद्यभेदेन वृक्षाकारोऽभिन्नः प्रतिभासते । स च संकेतात् पूर्वं स्वसम्वेदनप्रत्यक्षसिद्धः ज्ञानरूपत्वादतस्तत्रैव शब्द: संकेत्यते ।
तेन यदुच्यते भट्टेन ॥
“संकेतात् पूर्वमिन्द्रियैरन्यापोहो न गम्यते । नान्यत्र शब्दसंकेतः किन्दृष्ट्वा स प्रयुज्यतां ।। अन्वयेन विमुक्तत्वान्नानुमाप्यत्र विद्यते । सम्बन्धानुभवो॰प्यस्य तेन नैवोपद्यत" इति ।
निरस्तं ।
कस्मादितरेतराश्रयप्रतिविधानन्तुल्यमित्याह । यस्मादित्यादि । सजातीयव्यक्तिष्वेकाकारम्प्रत्यभिज्ञानमेकप्रत्यवमर्शस्तथाऽख्या संज्ञा यस्य ज्ञानस्य तत्तथा । अनेन भिन्नास्वपि व्यक्तिष्वेकाकारं प्रत्यभिज्ञानमेकत्वमारोपयतीत्युक्तं । ततश्च 88a विकल्पविज्ञानारोपितैकत्वासु व्यक्तिषु ? यत्र क्वचित् संकेतः कृतः सर्वत्र कृतो भवतीत्यस्य बीजमाख्यातं। एकत्र हीत्यनेन विजातीयपदार्थपरामर्शशून्याकारन्तेन परामर्शस्य प्रतिनियताकारत्वमाह । विजातीयपदार्थाकारव्यावृत्त्या सजातीयेषु सर्वेषु यदेकप्रत्यवमर्शज्ञानन्तत्र स्थित इत्यर्थः । एतेनापि सजातीयाऽसजातीयावस्तुविभागबीजमुक्तं । अत एवाह । तदित्यनेनैकः 1 परामर्शो गृह्यतेऽतच्छब्देन तद्विपरीतः। स चासश्च तदतौ । तयोर्हेतवस्तदतद्धेतवः । तान् विभजते । एक
1 Slokavārtika.