________________
२३७
४. सामान्यचिन्ता नत्वाददोषः। एक (हि)किंचिद् पश्यतोऽन्यत्र तदाकारविवकिनी बुद्धिमनुभवतः यथानुभवं ततोऽन्यो वैधर्म्यनिश्चयः। तदविवेचने ततः स अयमेव वृक्ष इति प्रदर्य व्युत्पादितः। यत्रैव तं न पश्यति तमेवावृक्षं स्वयं प्रतिपद्यते।
नेवं संभवति व्यवच्छेदवादे। एकत्र दृष्टस्य रूपस्य क्वचिद् अनन्वयात् । दृष्टप्रतिपत्तौ अन्यस्मिन्न स्यात् तथा प्रतीतिरिति चेत् । एवं तर्हि तत्रापि तुल्यमेतद् । यस्मात्
एतदेव ग्रहणकवाक्यमेकं हीत्यादिना व्याचष्टे। एकं हि किंचित् सामान्य वृक्षत्वादिकम्पश्यतोन्यत्र तत्सामान्यरहिते विलक्षणे वस्तुनि तदाकारविवेकिनी यथा परिदृष्टाकारविलक्षणाकाराम्बुद्धिमनुभवतः पुंसो यथानुभवन्ततो यथा परिदृष्टादन्यदित्येवंरूपो वैधर्म्यनिश्चयो वैलक्षण्यनिश्चयः ।
एतेन वैधर्म्यनिश्चयस्य स्वभाव उक्तः । (११२०॥)
तद्विवेचन इति व्यापारः (पूर्वदृष्टादृष्टार्थविवेचनः) पृथग्भावस्य व्यवस्थापयति। ततोन्यदित्यनेनैव तद्विवेचने सिद्धे यत्पुनस्तद्विवेचनग्रहणन्तत्स्पष्टार्थ । तत्रैतस्मिन् क्रमे सति यथानुभवम्वैधर्म्यनिश्चयवान् स प्रतिपत्ता। यं शाखादिमन्तमर्थम्विशिष्टसामान्यवन्तमाकारान्तराद् विवेचयति। तं पुरोधायायमेव वृक्ष इति प्रदर्य व्युत्पादितः संकेतं ग्राहितो। यत्रैव तं संकेतानुरूपं सामान्यात्मानन्न पश्यति। तमेवावृक्षं स्वयमेव शब्दव्यापारम्विना प्रतिपद्यते । तदेवमाकारान्त- 87b रात् स्वयमेव विवेकेनावधारितं सामान्यात्मानमुपादाय संकेते कृते सर्वासु सजातीयव्यक्तिषु कृतो भवति। सामान्यस्य सर्वत्रान्वयात् । अयमेवेति चावधारणात् संकेते कृते दृष्टविपरीतस्य सुज्ञानत्वात्। ततोन्यत्रावृक्ष इति निश्चयो भवतीति न यथोक्तदोषः।
अन्यापोहवादिनोप्येवमिति चेदाह। नेदमित्यादि। एकत्र संकेतकाले दृष्टस्यासाधारणस्य रूपस्य क्वचिद् व्यक्त्यन्तरेऽनन्वयादननुगमात्। ततश्च संकेतकाले यो वृक्ष इत्येवं गृहीतो भेदस्तस्यान्यत्र दर्शनन्नास्ति। तत्र संकेतकाले दृष्टे पश्चाद् दृश्यमाने च स्वलक्षणे यद् भिन्नप्रतिभासि दर्शनमुत्पन्नन्तेन हेतुना। वृक्षावृक्षयोः प्रतिपत्तौ क्रियमाणायां व्यक्त्यन्तरे प्यन्यस्मिन् वृक्षभेदेपि न स्यात्तथा वृक्ष इति प्रतीतिः। तथा हि यो वृक्षभेद: संकेतकाले दृष्टस्तस्माद् घटादयो विलक्षणास्तथान्योपि वृक्षभेदः। तत्र यथा घटादिषु वृक्ष इति प्रतिपत्तिर्न भवति तथा वृक्षभेदेपि न स्यात् किन्त्ववृक्ष इत्येव प्रतिपत्तिर्भवेदित्यर्थः।
एवन्तीत्या चार्यः तत्रापीति विकल्पाकारोपि सामान्य-संकेते क्रियमाणे