________________
२३६
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२०) वृक्षोऽयमिति संकेतः कृतः तत् प्रतिपद्यते । व्यवहारेऽपि, तेनायमदोष इति चेत्,
न हि वस्तुसामान्यवादिना किंचिद् विधीयते। अथ किञ्चित् पुरःस्थित वस्त्वेकं प्रदर्श्य वृक्षोयमिति संकेतः क्रियते। तेन संकेतकाले तथादृष्टमेवार्थ तत्संवन्धिनं वा व्यवहारकालेऽपि प्रतिपद्यत इति तुल्यः प्रसंगः स्यादिति चेत्। न हि तुल्यः। एवं तत्रापि
तरुः ॥१२०॥ अयमप्य यमेवेति प्रसंगो न निवत्तते ।
एकं प्रदर्य अयमपि वृक्षोऽयमेव वृक्ष इति वाद्यपि अयमपीति वा , अयमेवेति प्रकारद्वयेन, तयोश्च स एव दोषः। दृष्ट विपरीतस्य सुज्ञा- .
केचित् पठन्ति। संकेते विषयमभिधायातोन्यच्चानिषिध्येति। तच्चायुक्तमिव दश्यते विधिप्रतिषेधौ मक्त्वा शब्दप्रवत्त्यसम्भवात । एकस्य हि प्रदर्शनमभिदधता विधेरङ्गीकृतः। ततश्चाविधाय प्रदातिपदद्वयं व्याहतं स्यात । तस्मादविधायेत्यत्रैव नञ् द्रष्टव्यः । अविधाय निषिध्यान्यदिति पाठः । निषिध्यान्यत् पूर्वन्तद्वयवच्छेदेनापरं संकेतविषयमविधाय। प्रतिषेधपूर्वक विधिमकृत्वा विधिमात्रमेव केवलं कृत्वेत्यर्थः अत । एव प्रदश्यकमिति वृत्तावपि न कस्यचिद् व्यवच्छेदेन किंचिद् विधीयत इत्यन्यनिषेधपूर्वकमेव विधानं प्रतिषेधति। केवलस्तु विधिरंगीकृत एव । एकमिति सामान्यं । एतेन सामान्ये संकेतकरणात् सर्वव्यक्तिषु कृत इत्याचष्टे (१११६॥)
वृक्षोयमिति संकेतस्वरूपन्दर्शयति। यद्वस्तु प्रदर्श्य संकेतः कृतस्तत् प्रतिपद्यते व्यवहारेपि (1) तेन कारणेनायमनन्तरोक्तो वस्तुसामान्यवादिनोऽवोषः । तथा दष्टमेवार्थमिति सामान्यं यत्र संकेतः कृतः। तत्सम्बन्धिनं वेति सामान्यसम्बन्धिनमाश्रयं । तत्रापीति विधिना केवलेनापि संकेते क्रियमाणे द्वौ विकल्पौ वृक्षोयमिति संकेतं कुर्वाणः तरुर यमपीति विदधीत। तरुरयमेवेति वा। आद्ये पक्षे तरुत्वमन्यस्याप्यनिषिद्धमिति व्यवहारे नियमेन प्रवृत्तिर्न स्यादिति स एव प्रसङ्गः। अथ तरुरयमेवेति तदा स एवातरुरव्यवच्छेदोङ्गीकृतः। ततश्च संकेतकाले प्रतिपद्यमानेन कथं वृक्षावृक्षौ ज्ञाताविति तदवस्थः प्रसङ्गः। तदाह (1) प्रसंगो न निवर्तत इति ।
एकमित्यादिना व्याचष्टे। अयमपि वृक्षोऽयमेव वृक्ष इति। गतिमिति प्रकारं। तयोश्चेति द्वयोरपि प्रकारयोः । न दोष इत्यादि परः। दृष्टोपटाकारोनुभूतस्तद्विपरीतस्य ततो विलक्षणस्य सुज्ञानत्वात् ।