________________
४. सामान्यचिन्ता
वच्छेद प्रतिपद्येत । श्रप्रतिपत्तौ च परिहृततदन्यनिवेशशब्दात् । अनिराकरणे तेषां सङ्केते व्यवहारिणाम् ॥ ११८ ॥ न स्यात् तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत् ।
न हि संकेतकालः परार्थव्यवच्छेदेन निवेशिताच्छब्दात् व्यवहारकाले वृक्षपरिहारेण प्रवृत्तिर्न युक्ता, शिशपादिभेदवत् । अथ ।
अविधाय निषिध्यान्यत् प्रदश्यैकं पुरः स्थितम् ॥ ११९॥
२३५
मजानानः कथमवृक्षव्यवच्छेदं प्रतिपद्येत संकेते । नैव प्रतिपद्येत । अवृक्षव्यवच्छेदाप्रतिपत्तौ च सत्यामपरिहृतो न व्यवच्छिन्नस्तदन्यस्तस्माद् वृक्षादन्यो यस्मिन् वृक्षार्थे सो परिहृततदन्यस्तस्मिन्निवेशस्संकेतः । सप्तमीति योगविभागात् समासः । स यस्मिन् शब्देस्तीति मत्वर्थीय इति । अपरिहृततदन्यन्निर्देष्टुं निर्वा । अवृक्षादव्यवच्छिन्नेर्थे संप्रमुग्धरूपे संकेतितादिति
शीलमस्येति
यावत् ।
अपरः प्रकारः। वृक्षादन्यस्तदन्यस्तस्मिन्निवेशः संकेतः । अपरिहृतश्चासौ तदन्यनिवेशश्चेति कर्मधारयः । स यस्यास्ति वृक्षशब्दस्येति पूर्ववत् । अवृक्षादव्यवच्छिन्नत्वाद् वृक्षार्थस्य । तत्र संकेत्यमानस्य शब्दस्यावृक्षेपि निवेशः प्रसक्तः । वृक्षभेदेष्विवेति समुदायार्थः । ( । ११८ ।। )
तस्मादेवंभूताद् वृक्षशब्दाद् व्यवहारिणां पुंसां व्यवहारकाले तत्परिहारेणावृक्षपरिहारेण नियते शाखादिमति प्रवृत्तिर्न स्यात् । किन्त्वविशेषेण वृक्षावृक्षयोः प्रवृत्तिर्भवेत् । किम्वत् । वृक्षभेदवत् । न हि वृक्षशब्दात् प्रकरणादिरहिताद् वृक्षविशेषे खदिरादौ तदन्यवृक्षपरिहारेण प्रवृत्तिर्भवति । संकेतकाले तेषामव्यवच्छेदात् ।
न हीत्यादिना व्याचष्टे । संकेतकाल: संकेतशब्देनोक्तः परार्थव्यवच्छेदेनेति परस्मादवृक्षाद् वृक्षाद् वृक्षार्थस्याव्यवच्छेदेन । द्वितीये तु व्याख्याने (1) परस्मिन्नवृक्षे वृक्षशब्दस्य संकेताव्यवच्छेदेनेति व्याख्येयं । निवेशितादिति संकेतितात् । तत्परिहारेणावृक्षपरिहारेण वृक्षवदित्यस्य व्याख्यानं शिशपादिभेदवदिति । शिशपादय एव भेदा इति विशेषणसमासः वतिः सप्तम्यर्थे । सूत्रे तु वृक्षभेदा इति षष्ठीसमासः । शिशपादयो हि भेदा वृक्षस्य भेदा भवन्तीत्यनुरूपैव वृत्तिः तेषु च यथा वृक्षशब्दान्न परस्परव्यवच्छेदेन प्रवृत्तिस्तथा सूत्रविभाग एव व्याख्यातं ।
अथेत्यादिना पराभिप्रायमाशंकते ।
अविधायानिषिध्यान्यदिति प्रतिषेधद्वयं
455a