________________
प्रमाणवार्तिकस्ववृत्तिटीका (१।११७) अविज्ञातवृक्षेण तद्व्यवच्छेदरूपस्य अवृक्ष (स्य) अपि अपरिज्ञानाच्च बुद्धावनारूढऽर्थे संकेतो न समर्थ इति ये(चोदयन्ति),
तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा यदि ॥११॥ अथ। व्यवच्छिन्नाः कथं ज्ञाताः प्राग् वृक्षग्रहणादृते ।
न हि तदा प्रतिपत्ता. वृक्षमपि न वेत्ति अवृक्षामपि न वेत्ति, तज्ज्ञानायैव तदथितया उपगमात्। स च तदजानानः कथं संकेतेऽवृक्षव्य
यदीत्यादिना व्याचष्टे। तस्येत्यवृक्षभेदलक्षणस्य वृक्षस्य। एवन्तावन्न वृक्षस्य. ग्रहणं नाप्यवृक्षस्येत्याह (1) अविज्ञातेत्यादि। अविज्ञातो वृक्षो यस्य पुंसस्तेन तद्वयवच्छेदरूपस्येति वृक्षव्यवच्छेदरूपस्य बुद्धावनारूढर्थ इति (1) यदि वृक्षावृक्षौ बुद्धावारूढौ स्यातां तदाऽवृक्षपरिहारेण वृक्षे संकेतः स्यात् । अनारूढे च वृक्षेऽवृक्षे चार्थे कथं संकेतः (1)
तेषामित्यादिना परस्याप्ययन्दोषस्तुल्य इत्याह । ततश्च यस्तस्य परिहारो ममापि स एवेति भावः । (१११६॥)
य एकमित्यादिना व्याचष्टे । अन्यव्यवच्छेदेन संकेते क्रियमाणे ये वादिन एकम्वस्तु सामान्यमभ्युगम्येतरेतराश्रयदोषं चोदयन्ति । तेषान्तत्रापि वस्तुभूते सामान्ये वृक्षत्वलक्षणे संकेते क्रियमाणे द्वयी कल्पना अवृक्षा व्यवच्छिन्ना न वेति। (११७॥)
यदि व्यवच्छिन्नास्तदा ते ज्ञाता अङ्गीकर्तव्या । अज्ञातानां व्यवच्छेदाभावात् । तच्च ज्ञानन्तेषु न युज्यते । तदाह । कथमित्यादि । कथं ज्ञाता वृक्षार्थग्रहणाद् ऋते। 86b इत्येतावान् कारिकाभागः । प्राक्छब्दस्तु मिश्रकव्याख्यानेनोपात्तः । वृक्षार्थग्रह
णम्विना प्राग् वृक्षार्थग्रहणादवृक्षाः । कथं ज्ञाता इत्यर्थः । ये तु प्राक्शब्दं का रि का यां पठन्ति तैरर्थशब्दो न पठितव्यः । न ह्यवृक्षनिश्चयकाले वृक्षार्थग्रहणमस्त्यवृक्षग्रहणपूर्वकत्वात् वृक्षग्रहणस्य (1) न च वृक्षनिश्चयमन्तरेण वृक्षाथग्रहो युक्तस्तस्यापि वृक्षग्रहणपूर्वकत्वात् । एतदेवाह। न हीत्यादि। तदेति संकेतकाले प्रतिपत्ता। यस्मै संकेतः क्रियते । कस्मान्न वेत्तीत्याह । तदित्यादि । तस्य वृक्षावृक्षस्य ज्ञानायव तदथितया संकेतार्थितयोपगमादुपस्थितत्वात् । कथं नाम संकेतोत्तरकालं वृक्षावृक्षौ ज्ञास्यामीति । यद्वा तदथितयोपगमादिति संकेताथितया प्रवृतेः । अतो नास्ति संकेतकाले वृक्षावृक्षज्ञानं प्रतिपत्तुः । स च वृक्षावृक्ष