________________
४. सामान्यचिन्ता
२३३
रेऽप्यन्यपरिहारेण प्रवर्तनाच्च ।
अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् । अन्योन्याश्रयमित्येकमहाभावे द्वयाग्रहः ॥ ११६ ॥ संकेतासंभवस्तस्मादिति केचित् प्रचक्षते । afa एको वृक्षोऽवृक्षेभ्यो भिन्नः तस्य प्रवृक्षाग्रहणे तथा ग्रहणासामर्थ्यात्,
ननु विधिरूपेण बाह्यस्यैवाध्यवसायात् कथमन्यापोहविषयेत्युच्यत इत्याह । अन्येत्यादि । विजातीयव्यावृत्तेष्वर्थेषु व्यावृत्तिभेदम्विजातीयव्यच्छिन्नस्वभाव
मविशेषेणोपावाय विजातीयव्यावृत्तमात्रं रूपमाश्रित्य सजातीयव्यक्तिषु शब्दस्य निवेशनात् संकेतकरणादित्यर्थः । अनेनान्यापोहाश्रितत्वं श्रुतेराख्यातं । अन्य- 86a परिहारेण प्रवर्त्तनादित्यन्यापोहं प्रति कर्त्तृ भावः श्रुतेरुक्तः । ( । ११५ | | )
अवृक्षेत्यादिना परस्य चोद्यमाशंकते ( 1 ) अन्यापोहवादिनः किल न विधिरूपेण वृक्षार्थस्य ग्रहणं नाप्य वृक्षार्थस्य । किन्त्वन्योन्यव्यवच्छेदेन (1) तत्र (1) अबूक्षव्यतिरेकेण वृक्षार्थग्रहणे वृक्षशब्दस्य योर्थस्तस्य ग्रहणेऽभ्युपगम्यमाने । द्वयं वृक्षावृक्षग्रहणमन्योन्याश्रयं । तथा ह्यवृक्षार्थव्यवच्छेदेन वृक्षार्थग्रहणे सत्यवृक्षग्रहणपूर्वकं वृक्षग्रहणमंगीकृतं । अगृहीतस्यावृक्षस्य व्यवच्छेतुमशक्यत्वात् । अवृक्षस्यापि ग्रहणं वृक्षार्थव्यवच्छेदेनेति तत्रापि वृक्षग्रहणपूर्वकमवृक्षग्रहणमापतितं । वृक्षमगृहीत्वा तद्वयवच्छेदेनावृक्षार्थस्य व्यस्थापयितुमशक्यत्वात् । एवं वृक्षावृक्षयोर्मध्ये एकस्य वृक्षस्यावृक्षस्य वा ग्रहाभावे द्वयाग्रहः ।
यतश्च द्वयोरप्यग्रहस्तस्मात् कारणादन्यव्यवच्छिन्नेर्थे शब्दस्य यः संकेत उक्तस्तस्यासम्भव इति केचिदाचक्षते । तथा चाहो द्यो त क रः । “स यावच्चागान्न प्रतिपद्यते तावदगवि प्रतिपत्तिर्न युक्ता । यावच्च गान्न प्रतिपद्यते तावद्गवीत्युभयप्रतिपत्त्यभाव" इति ।
1 " प्रकल्पनाम" also
३०
एतमेवार्थ म्भ ट्टो प्याह ।
“सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः । तत्र गौरव वक्तव्योनन्यो यः प्रतिषिध्यते । स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः । सिद्धश्चेद् गौरपोह्यार्थं वृथापोहप्रवर्त्तनं ।
गव्यसिद्धे त्वगौर्नास्ति तदभावेपि गौः कुत" " इति ।
तस्माद् वस्तुभूतं सामान्यमेष्टव्यं । तत्र विधिरूपेणैव संकेत इति ते मन्यन्ते ।