________________
२३२ प्रमाणवार्तिकस्ववृत्तिटीका (१।११५) किषु अर्थेषु न विसंवादिकेति।
___ तथा हि तेषु स व्यतिरेको भूतः, सर्वथाऽभ्युपगमनीयत्वात्। व्यतिरि454b क्तस्याव्यतिरिक्तस्य च सर्वथाऽयोगात्। तस्य वस्तुनि निवेशने शब्दज्ञानाभ्यां'
दूरोत्सृष्टमेव वस्तु स्यात् तद्विषयाभिमतस्य तत्स्वभावात्, अन्यस्य वस्तु धर्मस्यापि क्वचिदसंस्पर्शात् । तत एव सा श्रुतिरन्यापोहविषयेत्युच्यते।
अन्यव्यावृत्तेष्वर्थेषु व्यावृत्तिभेद विशेषेणोपादाय निवेशनात्, व्यवहा
ध्यवसायां। तदन्यपरिहाराङ्गभावात्। विवक्षितादर्था दन्यस्य परिहारांगभावतया • व्यवच्छेदाश्रयभावतः । परमार्थतो वस्तुतः । तद्वयतिरेकिष्वतत्कार्यव्यतिरेकिषु
न विसम्वादिकेत्युच्यते। तथा ह्यनित्यकृतकादिश्रुतयो यथाभूतस्य नित्यादि-. व्यावृत्तस्य वस्तुनो व्यावृत्तिमुपादाय संकेतितत्वाद् व्यवहारेपि तथा भूतस्यान्यपरिहाराङ्गभावेन प्राप्तिहेतवो भवन्ति । तेन यथार्थदर्शना न्यायातत्वाच्छ्रतेरपि सम्वादः।
यद्वा यथाभूते व्यवच्छेदे -सा श्रुतिः संकेतिता तस्य परमार्थतोस्ति वस्तुषु सद्भाव इतीयता लेशेनाविसम्वादित्वं न तु धूमादिवच्छब्दानामावश्यको वस्तुनि प्रतिबन्धस्तेषामिच्छामात्रप्रतिबद्धत्वात्।
अविसम्वादित्वमेव समर्थयन्नाह। तथा होत्यादि। तेषु भावेषु स व्यतिरेको व्यवच्छेदो भूतः सत्यः (1) कुतः (1) सर्वथा सामान्याभ्युपगमेप्यवश्यं व्यवच्छेदस्याभ्युपगमनीयत्वादन्यथा व्यवच्छिन्नस्वभावाभावे सामान्यस्यैवाभावप्रसङ्गादित्युक्तं। सामान्योक्तापि तत्र भूत इति चेदाह। नैक इत्यादि। एकः सामान्यपदार्थो व्यक्तेर्व्यतिरिक्तो वै शे षि का दीनामव्यतिरिक्तः सां ख्या नां न तेषु भूत इति सम्बन्धः। कस्मात् (1) सर्वथा व्यतिरिक्तस्याव्यतिरिक्तस्य च प्रमाणबाधितत्वेनायोगादसम्भवात्। बाधकम्प्रमाणं प्रागुक्तं वक्ष्यते च।
यदि पुनर्यथा प्रतिभासमपि सामान्यं शब्देन चोद्येत तदा तस्य सामान्यस्य वस्तुन्यविद्यमानस्य समावेशने शब्देन विषयीकरणे। तस्य वा सामान्यस्य प्रमाणबाधितस्य वस्तुनि बाह्ये निवेशनेऽभ्युपगम्यमाने दूरोत्सृष्टमेवात्यन्तविप्रकृष्टमेव वस्तु स्यात् । कुतः (1) शब्दज्ञानाभ्यां शब्दात् तदुक्ताच्च ज्ञानादित्यर्थः । यद्वा शब्दज्ञानाभ्यां दूरमुत्सृष्टं त्यक्तं स्यात् । कुतः (1) तद्विषयाभिमतस्य शब्दादिविषयाभिमतस्य । तस्येति सामान्यस्य वस्तुस्वभावात् । अन्यस्य सामान्यव्यतिरिक्तस्य वस्तुधर्मस्य वस्तुस्वभावस्य स्वलक्षणस्यासंस्पर्शादग्रहणात् । यतश्च स्वलक्षणन्न गृह्णात्यथ च स्वाकाराभिन्नमध्यवस्यति। तत एव सा श्रुतिरन्यापोहविषयेत्युच्यते ।