________________
४. सामान्यचिन्ता
२३१
.
जनयन्त्यप्यतत्कारिपरिहाराङ्गभाव तः ॥११४॥ वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता। ततोऽन्यापोहविषया तत्काश्रितभावतः ॥११५।।
एकं तमाकारमारोप्यार्थेषुत्पद्यमानां मिथ्यावभासित्वात् अकार्यकारिणमपि कार्यकारिणमिवाध्यवसन्तीं वस्तुपृथग्भावमात्रबीजां समानाध्यवसायां मिथ्यां जनयन्त्यपि श्रुतिः तदन्यपरिहाराङ्गभावात् , परमार्थतः तद्व्यतिरे
एतदुक्तम्भवति । स्वाकारमबाह्य बाह्यमिवाध्यवस्यन्तीमिति यावत। एतेन प्रवृ त्त्य (र्थ) त्वं श्रुतेराख्यातं ।
वस्तुभूतसामान्यमन्तरेण कुतस्तस्या उत्पत्तिरिति चेदाह। वस्त्वित्यादि। वस्तूनाम्पृथग्भाव इतरेतरभेदस्तन्मात्रं बीजकारणं पारम्पर्येण यस्याः सा तथोक्ता। यतश्चानुगतं रूपं व्यावृत्तं चैकीकृत्य गृह्णात्यतोनथिकां जनयन्त्यपि श्रुतिरर्थे न विसम्वादिका। कस्माद् (1) अतत्कारिपरिहाराङ्गभावतः। विजाती याव्यवच्छेदहेतुभावतः। ____एतदुक्तम्भवति। यद्यन्यव्यावृत्तवस्त्वध्यवसायिनी बुद्धि जनयेच्छ्रतिस्तदा तदन्यव्यावृत्त एव स्वलक्षणे पुरुष प्रवर्तयतीति सम्वादिका स्यात्। संकेतकाले च श्रुतेरितरेतरभिन्न एव स्वभाव आश्रयस्तत्रास्याः संकेतितत्वात्। तदेवम्पारम्पर्येण वस्तुभेदाश्रयाच्च कारणादर्थे। न विसम्वादिका मता। व्यवहारकालेप्यन्यव्यावृत्तस्यैव वस्तुनः प्रापणात्।
ननु विधिरूपेण वस्त्वध्यवसायात्कथं श्रुतैरन्यापोहविषयत्वमित्यत आह । तत इत्यादि। यतश्चातत्कारिपरिहारांगभावतः श्रुतेर्वस्तुभेदाश्रयत्वं च ततः कारणादन्यापोहविषया। एतदेव द्वयमाह। तत्काश्रितभावत इति । तस्मिन्नपोहे कत भावतः । आश्रितभावश्च स्वार्थाभिधानद्वारेणार्थादतत्कारिपरिहाराङ्गभावतस्तस्मिन्नपोहे कर्त भावः श्रुतेः । व्यवहारकाले संकेतकाले च वस्तुभेदाश्रयद्वारेण प्रवृत्तेस्तस्मिन्नपोहे श्रुतेराश्रितभावः।
एकेत्यादिना कारिकार्थमाह। तमित्येकमाकारं स्वप्रतिभासिनमारोप्याथैध्वध्यस्योत्पद्यमानां। स च स्वप्रतिभासो' मिथ्यावभासित्वादकार्यकारी। तमे- 85b वंभूतमपि कार्यकारिणमिवाध्यवस्यन्तीं। अनेनाकार्यकृतीत्यादि व्याख्यातं । वस्तुपृथग्भावमात्रमन्यव्यवच्छेदमात्रं यस्या बुद्धेरिति विग्रहः। मिथ्याबुद्धि जनयन्त्यपि श्रुतिः (1) कस्मान्मिथ्याबुद्धिरित्यत आह । समानाध्यवसायामेकाकारा