________________
२३०
प्रमाणवार्त्तिकस्ववृत्तिटीका (१।११३)
क्रियमाणोऽतत्कारिविवेकेन प्रवृत्या एव शोभते ।
अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः ।
यदि तत्प्रतीत्यर्थो न संकेतः, तस्य व्यवहारकालेऽपि श्रसंस्पर्शानान्यपरिहारेण प्रवर्त्तेत । न हि तेषां तेभ्यः स विवेकः शब्देन चोद्येत ।
अकार्यकृतितत्कारतुल्यरूपावभासिनीं ॥११३॥ धियं वस्तु (पृथग्भावमात्रबीजामनथिकाम् ) ।
योयमित्यादि विवरणं । अन्योन्यं विवेकोन्यव्यावृत्तः स्वभावो भावानान्त त्प्रतीतये तन्निश्चयार्थं स्वप्रतिभासेऽध्यवसितबाह्यरूपे संकेतोपि क्रियमाणः शोभेत युक्तियुक्तत्वात् ( 1 ) किमर्थं क्रियत इत्यत आह । अतत्कारीत्यादि । विवक्षितार्थक्रियाकारिणो ये न भवन्ति तेषां विवेकेशन परिहारेण प्रवृत्त्यर्थतया । अतत्कारिषुप्रवृत्तिर्माभूदित्यर्थः ।
अमुमेवार्थं व्यतिरेकमुखेण (? न ) द्रढयन्नाह । यदीत्यादि । तस्यान्यपरिहारस्य प्रतीत्यर्थो यदि न संकेतस्तत्कारिणी तदन्यपरिहारस्य व्यवहारकालेप्यसंस्पर्शात्। यद्वा यदि न तत्प्रतीत्यर्थः संकेत इति विजातीयव्यावृत्तस्वभाव852 प्रतीत्यर्थः संकेत: ( 1 ) तदा तस्यान्य' व्यावृत्तस्य स्वभावस्य व्यवहारकालेपि न केवलं संकेतकालेऽसंस्पर्शाच्छब्देनाविषयीकरणान्नान्यपरिहारेण प्रवर्त्तेत ।
एतदुक्तम्भवति । यदा विधिरूपेणान्यव्यावृतोर्थो विषयीकृतस्तदान्यव्यवच्छेदः प्रतीयेत । एतदेवाह । न हीत्यादि । विवेक इति विविक्तः स्वभावः । तेषान्तत्कारिणान्तेभ्य इत्यतत्कार्येभ्यः । यदि हि तस्य विविक्तस्य स्वभावस्य प्रतीतये संकेतः कृतः स्यादेवं व्यवहारेपि शब्देन चोद्येत (1) तथा चान्यपरिहारेण प्रवर्त्तेतेति संकेतोपि तद्विदर्थिक एव युक्तः ।
ननु च शब्दजनिता बुद्धि: स्वाकारमेव बाह्यतयाध्यस्य ग्रहणादलीका । ततश्च तज्जनकस्य शब्दस्य कथम्वस्तुसम्वादः कथं चान्यापोहविषयत्वमित्यत आह ।
सा चेत्यादि । अन्यापोहप्रतिपत्त्यर्थं या संकेतिका । सा च श्रुतिः । धियं जनयन्त्यपीति सम्बन्धः । किम्विशिष्टाम् ( 1 ) अकार्यकृति । अवाह्यरूपे स्वाकारे । तत्कारि तुल्यरूपेणार्थक्रियाकारि बाह्यैकरूपेणावभासोध्यवसायं इति तृतीया - समासः स यस्या विद्यत इति पश्चात् मत्वर्थीयः ।