SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३० प्रमाणवार्त्तिकस्ववृत्तिटीका (१।११३) क्रियमाणोऽतत्कारिविवेकेन प्रवृत्या एव शोभते । अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः । यदि तत्प्रतीत्यर्थो न संकेतः, तस्य व्यवहारकालेऽपि श्रसंस्पर्शानान्यपरिहारेण प्रवर्त्तेत । न हि तेषां तेभ्यः स विवेकः शब्देन चोद्येत । अकार्यकृतितत्कारतुल्यरूपावभासिनीं ॥११३॥ धियं वस्तु (पृथग्भावमात्रबीजामनथिकाम् ) । योयमित्यादि विवरणं । अन्योन्यं विवेकोन्यव्यावृत्तः स्वभावो भावानान्त त्प्रतीतये तन्निश्चयार्थं स्वप्रतिभासेऽध्यवसितबाह्यरूपे संकेतोपि क्रियमाणः शोभेत युक्तियुक्तत्वात् ( 1 ) किमर्थं क्रियत इत्यत आह । अतत्कारीत्यादि । विवक्षितार्थक्रियाकारिणो ये न भवन्ति तेषां विवेकेशन परिहारेण प्रवृत्त्यर्थतया । अतत्कारिषुप्रवृत्तिर्माभूदित्यर्थः । अमुमेवार्थं व्यतिरेकमुखेण (? न ) द्रढयन्नाह । यदीत्यादि । तस्यान्यपरिहारस्य प्रतीत्यर्थो यदि न संकेतस्तत्कारिणी तदन्यपरिहारस्य व्यवहारकालेप्यसंस्पर्शात्। यद्वा यदि न तत्प्रतीत्यर्थः संकेत इति विजातीयव्यावृत्तस्वभाव852 प्रतीत्यर्थः संकेत: ( 1 ) तदा तस्यान्य' व्यावृत्तस्य स्वभावस्य व्यवहारकालेपि न केवलं संकेतकालेऽसंस्पर्शाच्छब्देनाविषयीकरणान्नान्यपरिहारेण प्रवर्त्तेत । एतदुक्तम्भवति । यदा विधिरूपेणान्यव्यावृतोर्थो विषयीकृतस्तदान्यव्यवच्छेदः प्रतीयेत । एतदेवाह । न हीत्यादि । विवेक इति विविक्तः स्वभावः । तेषान्तत्कारिणान्तेभ्य इत्यतत्कार्येभ्यः । यदि हि तस्य विविक्तस्य स्वभावस्य प्रतीतये संकेतः कृतः स्यादेवं व्यवहारेपि शब्देन चोद्येत (1) तथा चान्यपरिहारेण प्रवर्त्तेतेति संकेतोपि तद्विदर्थिक एव युक्तः । ननु च शब्दजनिता बुद्धि: स्वाकारमेव बाह्यतयाध्यस्य ग्रहणादलीका । ततश्च तज्जनकस्य शब्दस्य कथम्वस्तुसम्वादः कथं चान्यापोहविषयत्वमित्यत आह । सा चेत्यादि । अन्यापोहप्रतिपत्त्यर्थं या संकेतिका । सा च श्रुतिः । धियं जनयन्त्यपीति सम्बन्धः । किम्विशिष्टाम् ( 1 ) अकार्यकृति । अवाह्यरूपे स्वाकारे । तत्कारि तुल्यरूपेणार्थक्रियाकारि बाह्यैकरूपेणावभासोध्यवसायं इति तृतीया - समासः स यस्या विद्यत इति पश्चात् मत्वर्थीयः ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy