________________
४. सामान्यचिन्ता
२२६
सा चातत्कार्यविश्लेषः, एव।
___ तदन्यस्यानुवत्तिनः। अष्टेः प्रतिवेधाच्च; न हि दृश्यं विभागेन न प्रतिभासत इति । सति वा क्वचिद् अनाश्रितं कथं ज्ञानहेतुरित्येतदप्युक्तम्। संकेतोपि न युक्तः। तस्मात्--
संकेतस्तद्विदर्थिकः ॥११२।। एव युक्तः। योयं अन्योन्यं विवेकः भावानां तत्प्रतीतये संकेतोऽपि
सत्त्यं (1) किन्तु क्रमेण विकल्पहेतवो भवन्त इत्याद्यस्यैवार्थोऽनेन स्फुटीकृतः । एककार्यभेदवस्तुभूतं सामान्यम्भविष्यतीत्यत आह। सा चेत्यादि। सा चैककार्यता। अतत्कार्येभ्यो विश्लेषो व्यावृत्त एव स्वभावो न वस्तुभूतं सामान्यं । किं कारणन्तदन्यस्य स्वलक्षणादन्यस्यानुत्तिनोन्वयिनो वस्तुनो व्यक्तिव्यतिरेकेणादृष्टे: प्रतिषेधाच्च पूर्वोक्तात्।
न हीत्यादिना व्याचष्टे। दृश्यमुपलब्धिलक्षणप्राप्तं विभागेन व्यक्तिभ्यो भेदेन। सति वा सामान्ये नित्यत्वादनाधेयातिष (? श) यत्वेन क्वचिद् व्यक्तयन्तरे अनाश्रितं कथं ज्ञानहेतुः। नैव । आश्रयव्यंग्यस्य तस्य ज्ञानहेतुत्वमिष्टमित्यभिप्रायः। एतदप्युक्तमित्यनेन सम्बन्धनीयं । अस्यापि प्रागुक्तत्वात्। ___ यत एवम्भूतं सामान्यं नास्ति। तस्मात् संकेतोपीत्यादि। तदित्यन्यापोहः सम्बध्यते। तस्यास्यापोहस्य विकल्पेन स्वाकाराभेदेनाध्यस्तस्य वित् ज्ञानं । तत्पूर्वको लाभश्च। तद्वित्। सैवार्थः फलमिति विशेषणसमासः। (स)मयस्यास्ति संकेतस्येति मत्वर्थीयष्ठन्। विकल्पाध्यवसितबाह्यार्थप्रतिपत्त्यर्थमिति समुदायार्थः।' सर्वश्चारम्भः फलार्थ इति विदिर्लाभार्थोप्याक्षिप्त एवान्यथा संकेतकरणस्य वैयर्थ्यात् ।
। ननु तद्विदर्थो यस्येति बहुब्रीहिणा भवितव्यं लाघवात् । बहुब्रीहिणोक्तत्वान्मत्वर्थस्य तद्विभा (गा)नुत्पत्तिलाघवत्वं । तथा च भाष्य' उक्तं “कर्मधारयाद् बहुव्रीहिर्भवतीत्यादि।
नैष दोषः। इदमपि तत्रोक्तं' "क्वचित्कर्मधारय एव सर्वसाधनाद्यर्थ" इति। आकृतिगणत्वाच्च सर्वसाधनादेस्तत्रायन्तद्विदर्थिकशब्दो द्रष्टव्यः । (१११२॥)
1 Vyakarana-mahābhāsya.
2 Ibid.