________________
२२८
'प्रमाणवार्तिकस्ववृत्तिटीका ( १।१११ )
जनयन्तीति निवेदितम् । स त्वेषामभिन्नोऽतत्कारिस्वभावविवेकः, 5 इति ज्ञानादेः कस्यचिवेकस्य करणात् ।
तदपि प्रतिद्रव्यं अभिन्नम् प्रकृत्या प्रभेदावस्कन्दिनो हेतुत्वात् श्रभिन्नं ख्याति । तथाभूतहेत्वभेदाध्यवसायस्य ज्ञानाद्यर्थस्य हेतुत्वात् व्यक्तयोपि । प्रकृत्या 45325 एवं प्रत्ययं संसृष्टाकारं स्वभावभेदपरमार्थानुपचरितं जनयन्तीति श्रसकृन्निवेदितम् ।
"
एवं चेत् एककार्य वस्तुभेवः ।
स्वभाव (त) इति प्रकृत्या । चकारो निवेदितमित्यस्या 'नुकर्षणार्थः । एतदपि तत्रैव प्रस्तावे निवेदितं । क्रमेणेति यदुक्तन्तस्य व्याख्यानं विकल्पहेतवो भवन्त इति । विकल्पकारणत्वादनुभवज्ञानम्विकल्पः । विकल्पहेतोरनुभवज्ञानस्य हेतवो भवन्त इत्यर्थः । व्यक्तयोनुभवज्ञानं जनयन्ति तच्चैकाकारां भ्रान्तिमित्ययं क्रमार्थः ।
स त्वेषामित्यादिना का रिका र्थमाह । सर्वेषाम्भावानाम्भेदोन्यापोहः । किं स्वभावोऽतत्कारिविवेकः स एषामभिन्न इत्युच्यते । कस्माद् ( 1 ) ज्ञानादेरर्थस्येन्द्रियस्योदकाहरणादेश्च कस्यचिदित्यात्मानुरूपस्यैकस्य करणात् ।
यद्वा (।) ननु बुद्धेरैवायमभिन्नाकारः कथं व्यक्तीनामित्यत आह । त्वाकार एषां बाह्यानामभिन्नस्तथैव प्रतीतेः ( 1 ) प्रतीतिरेव कुतः । ज्ञानादेः कस्यचिदेकस्य करणात् ( 1 ) स चाका रो भेदोन्यापोह इत्युच्यते न सामान्यं । किङ्कारणम् ( 1 ) अतत्कारिस्वभावविवेको यतः ।
एतदुक्तम्भवति । प्रतिव्यक्तिगौगौरिति प्रत्ययेनातत्कारिस्वभावविवेकोतत्कारिस्वभावविविक्त एव स्वभावो विषयीक्रियते । न त्वर्थान्तरभूतं सामान्यन्तेन भेद इत्युच्यते । एतत्पश्चार्द्धस्य व्याख्यानं ।। १११ ॥
ननु कथं ज्ञानादेरेकत्वमित्याह । तदपीत्यादि । पूर्वार्द्धस्यैतद् व्याख्यानं । तदपि ज्ञानादिकार्यमभिन्नं ख्यातीति सम्बन्धः । प्रकृत्येति स्वभावेन । अभेदावस्कन्दिन इत्यभेदाध्यवसायिनः । तथाभूतेत्यादिना व्यक्तीनामपि विकल्पं प्रति पारम्पर्येण कारणत्वमाह । अभेदावसायो विद्यते यस्मिंस्तस्य ज्ञानादे84b रित्यनुभवज्ञानस्योदकाद्याहरणादेश्चार्थस्य हेतुत्वात् कारणात् क्रमेण व्यक्तयोप्येकं प्रत्ययं जनयन्तीति सम्बन्धः । किम्विशिष्टमित्याह । संसृष्टाकारमित्यादि । संसृष्टो व्यक्तिष्वारोपित एक आकारो येन स तथा । स्वभावभेदोन्यव्यावृत्तं रूपं स एव परमार्थोनुपचरितोऽस्येति विग्रहः । पारम्पर्येण व्यावृत्तस्वलक्षणद्वारायातत्वाद् विकल्पस्य ।
ननु च तान्तु भेदिनः पदार्था इत्यादिनाऽयमर्थोऽनन्तरमेवोक्तः ।