________________
४. सामान्यचिन्ता
२२७
एककार्याः? तद्धि तासां कार्य भिद्यते। घटादेः उदकाहरणादि यदेककार्य तदपि प्रतिद्रव्यं भेदात् भिद्यत एवेति। भिन्नानां नैककार्यता इति चेत् । नायं दोषः। एवम्
एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥११॥ निवेदितमिदं यथा वस्तूनां न स्वभावसंबन्धः । तत्र एकाकारा बुद्धिर्धान्तिरेव। तां क्रमेण भेदिनो विकल्पहेतवो भवन्तः पदार्था न
रूपाध्यारोपेण तदपेक्षयेत्यत आह। तद्धीत्यादि। तद्धयनुभवज्ञानन्तासां व्यक्तीनां कार्य न विकल्पविज्ञानन्तस्य व्यक्त्यभावेपि भावात्। तस्यैव च विकल्पस्य समाना इत्येवमुत्पद्यमानस्य व्यक्तिषु किं साम्यं । पटादीनां शीतापनयनमित्येवमादिपरिग्रहः। प्रतिद्रव्यमित्यव्ययीभावात् षष्ठ्या अम्भावः। द्रव्यस्य द्रव्यस्य यो भेदस्त।' स्माद् भेदात् कारणभेदाद् भिद्यत इति यावत्।
नेत्या चा यः। एकप्रत्यवमर्शस्येति स्वविषयस्यैकाकारप्रत्ययस्य हेतुत्वाद् धीनिर्विकल्पिका सविकल्पिका वाऽभेदिनी भाति। एकधीहेतुभावेनेत्यध्यवसितैकरूपाया बुद्धहेतुत्वेन व्यक्तीनामभिन्नता भाति। ___एतदुक्तम्भवति। प्रत्येकं यद्यपि व्यक्तिस्वरूप'ग्राहिण्यो धियो भिन्नास्त- 84a थापि प्रत्यभिज्ञया तासामेकत्वमध्यवसीयते। अनेन चैककार्यतासादृश्येन व्यक्तीनामेकत्वं । न त्वेकपरामर्शहेतुत्वेनानुभवज्ञानानामेकत्वमुपचर्यते । नापि तथाभूतानुभवज्ञानहेतुत्वेन व्यक्तीनामेकत्वमुपचर्यते। स्खलितप्रत्ययविषयत्वाभावादुपचरितोपचाराभावाच्च। वृत्त्यर्थानुरूपश्च कारिकार्थो न व्याख्यातः स्यात् । (११११॥) ___ ननु यद्येककार्यतासादृश्येन व्यक्तीनामेकत्वाध्यवसायः कथन्तर्हि बुद्धीनामेकत्वाध्यवसायः। एककार्यत्वाभावात् । अथ ताः स्वभावत एकत्वावसायं जनयन्ति व्यक्तयोप्येवम्भविष्यन्तीति किमेककार्यतासादृश्येन।
सत्त्यम् (1) आचार्य दि ग्ना गां भिप्रायेणैवमुक्तमित्यदोषः। तस्मादेकत्वाध्यवसादेकत्वमिष्यते। न परमार्थत इत्यत आह । निवेदितमित्यादि। “सर्वभावाः स्वभावेन व्यावृत्तिभागिन" (प्र० वा० ११४२) इत्यत्रोक्तत्वात्। तत्रेत्यसंसर्गिषु भेदेषु । एकाकारा बुद्धिरतस्मिंस्तद्ग्रहाद् भ्रान्तिरेव । ___ अथ स्यात् (1) सामान्यमन्तरेण भ्रान्तरेवायोग इत्यत आह। तान्त्वित्यादि। ताम्भ्रान्तिम्भेदिनः पदार्था व्यावृत्तानि स्वलक्षणानि क्रमेण जनयन्ति न साक्षात् ।