SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२६ प्रमाणवात्तिकस्ववृत्तिटीका (१।११०) प्रतीयन्ते इति चेत् न हि एककार्य (ता)सादृश्यनैव । अर्थज्ञाने द्वावाकारों दृष्टौ। अदृष्ट यथा अर्थद्वयकल्पनेन स्वयमेव एककार्या व्यक्तयः कल्पनाविषयतां उपगताः। तस्मादनया व्यभिचारेण तथा रोप्यत इति न दोषः। धीः कार्य तासां सा च विभिद्यते। ____तद्वत् प्रतिद्रव्यं तत्प्रतिभासिनोपि ज्ञानस्य (व्यक्ति) भेदात् कथं 83b न निरूपयितुं शक्यस्तदपोहो न सिध्यतीति" (1) अपास्तं । सामान्यमन्तरेणापि स्वहेतुभ्य एव गवादीनां समानामुत्पत्तेर्यदि नाम सारूप्यमर्थान्तरभूतं नेष्यते सरूपास्त्विष्यन्त एव ते। एवंरूपाश्च येन भवन्त्यश्वादयस्ते सर्वेऽविशेषेणागोरूपतया निषिध्यन्त इति न काचित् क्षतिः । आ चा र्यस्तु "न नाम स्वहेतुभ्यः समाना उत्पन्नास्तथापि न सामान्यबलात् समाना इति प्रतीतिरि"ति दर्शयन्नाह। नेत्यादि। तद्दर्शन इति व्यक्तिग्राहिणि ज्ञाने। सामान्यज्ञाने वा। भिन्नाभिन्नयोरिति विशेषसामान्ययोः । एककार्यतासादृश्यमिति। एककार्यतैव सादृश्यं साम्यं तेनैव समाना व्यक्तयः प्रतीयन्त इत्यर्थः। न तु पारमार्थिकेन सामान्येन। तेनैककार्यता सादृश्यं येषान्त एवापोह विषया येषां त्वेककार्यता नास्ति ते पोह्या इति सिद्धं । यथा चैकान्तभिन्ना अप्येककार्यं कुर्वन्ति तथोक्तं प्राक। .. ___ कस्मान्न सामान्येन समाना प्रतीयन्त इत्याह। न हीत्यादि। अर्थज्ञान इत्यनुभवज्ञाने द्वावाकारौ भिन्नौ। अर्थद्वयकल्पनेन समानासमानकल्पनेन। कल्पनाविषयतामित्येकत्वारोपविकल्पविषयतां। तथेति समान रूपतया। अनया विकल्पबुद्धया। नन्वित्यादि परः। तासां व्यक्तीनां धीः कार्य सा च विभिद्यत इत्येतावान् कारिकाभागः । प्रतिभावमित्येतदपेक्ष्य पठितः। एवम्भावं प्रति। तद्वदित्यादि विवरणं । तत्प्रतिभासिनोपि व्यक्तिप्रतिभासिनोपि ज्ञानस्य। तद्वद्वयक्तिभेदात्। कथमेककार्या व्यक्तयो नैव। (१११०॥) स्यादेतत् (1) नानुभवज्ञानेनैककार्याः व्यक्तियः किन्तु यत्तद्विकल्पकमेक 1 Slokavārtika.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy