________________
४. सामान्यचिन्ता
कथन्ता भिन्नधग्राह्याः समादेककार्यता |
सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥११०॥
ग्रहणदर्शनात् । श्रासु श्रभिन्नप्रतिभासः ।
ननु प्रास्वभिन्नप्रतिभास, न तद् दर्शने भेदाभेदप्रतिभासात् न समाना: 453b
२२५
नायत्तस्य ताभिरनुपकृतस्येत्यर्थः । समवायलक्षणेन सम्बन्धेन सम्बन्धात् सामान्यस्य साम्यभ्युपगम्यमानेऽतिप्रसंगः संख्यासंयोगकार्यद्रव्याणामपि सामान्यरूपता स्यात् । ततश्च तत्सम्बन्धात् संख्येयादिषु समानप्रतिभासः स्यात् ।
कथमित्यादि परः । समाना इति ग्रहणाद् व्यक्तिषु प्रतिभासभेदः साध्यते (1 ) तच्चैतद् विरुद्धं । यस्मात् समाश्चेता व्यक्तयः कथम्भिन्नधी ग्राह्या एवेति सावधारणं । अभिन्नधीग्राह्या अपि प्राप्नुवन्तीत्यर्थः । तथा हि यत्र किञ्चित् सामान्यं कश्चिच्च विशेषस्तत्र समाना इति ग्रहणं युक्तमन्यथा घटपटादिवदभेदप्रतिभासः स्यान्न समाना इति ।
तयाचष्टे । नन्वित्यादि । आसु व्यक्तिष्वित्यनेन विशेषरूपमाह । अभिन्नः प्रतिभास: सिद्ध इत्यध्याहार्यः ।
अनेन च सामान्यस्य रूपमुक्तं ।
तदेवं साधारणाऽसाधारणरूपग्रहणाद् व्यक्तयः समाना गृह्यन्त इति समुदायार्थः । तत्कि समानेष्वेकानेकप्रतिभासो विद्यते येनैवमुच्यते । यदि स्यादिहेति बुद्धिः स्यादित्युक्तं । सामान्यात्मकत्वाद् विशेषाणां समाना इति प्रतिभास इति चेत् । नन्वनुगतप्रतिभासाभावे सामान्यमस्तीति कुतः । न च समानरूपान्यथानुपपत्त्या सामान्यकल्पना युक्ता । स्वहेतुभ्य एवं केषांचित् समानामेवोत्पत्तेः केषांचिदसमानां । न च सामान्यात् तेषां समानरूपता युज्यत इत्युक्तं ।
तेन यदुच्यते भट्टे न ॥
२६
“न चाप्रसिद्धसारूप्यानपोहविषयात्मना । शक्तः कश्चिदपि ज्ञातुं गवादीनविशेषतः ॥ अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना । गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते ॥ शावलेयाच्च भिन्नत्वं बाहुलेयाश्वयोस्समं । सामान्यं नान्यदिष्टं च क्वागोपोहप्रवर्त्तनं ॥ अपोह्यानपि चाश्वादीनेकधर्मान्वयादृ'ते ।