SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२४ प्रमाणवार्तिकस्ववृत्तिटीका (१।१०६) अथवा। अस्तु बुद्धः प्रतिभासः"अभिन्नप्रतिभासाधीन भिन्नेष्विति" प्रतिभासो धियां भिन्नः समाना इति तद्ग्रहात् ॥१०९॥ अस्तु प्रतिभासो धियां भिन्नाः समाना इति तासां ग्रहणात् । नैव तासु अभिन्नः प्रतिभासः समाना इति ग्रहणात्। न हि एकप्रतिभासे समाना इति युज्यते। किन्तर्हि ? तदेवेदमिति । द्वयस्य सम्बन्धादिति चेत्। न अप्रतिबद्धस्य सम्बन्धायोगात्, अतिप्रसङ्गाच्च। ताः समाना इति चेत्, कथमन्योन्यस्य साम्यम् ? तत्सम्बन्धादिति चेत्। न। __ अधुनास्त्येकप्रतिभासो व्यक्तिष्वित्याह। अथवास्त्वित्यादि। यदुक्तम् (1) अभिन्नप्रतिभासा धीन भिन्नेष्वित्यैतदस्तु । इष्टमेवैतदित्यर्थः। यतः प्रतिभासो धियां सामान्यबुद्धीनां भिन्नः। किङकारणं (1) समाना इति तासां व्यक्तीनां ग्रहणात्। नैवेत्यादिना व्याचष्टे । तास्विति सामान्यबुद्धिषु अभिन्न इत्येक (:)प्रतिभासोस्ति (1) किं कारणं (1) तासां व्यक्तीनां समाना इति ग्रहणात्। ननु समाना इति ग्रहे सत्येकप्रतिभासः कस्मान्न युज्यत एवेत्यत आह । न हीत्यादि। किन्तर्हि तदेवेति यत्पूर्वदृष्टन्तदेवेदन्दृश्यत इत्येवं स्यान्न तु पूर्वेणेदं समान मिति भेदाधिष्ठानत्वात् समानव्यवहारस्य। द्वयस्येत्यादि। यदि सामान्यमेव 83a केवलन्ता भिर्बुद्धिभिर्गृह्यते तदा भवेदयं दोषः। किन्तु सामान्यं विशेषश्च द्वयमपि सामान्यबुद्ध्या गृह्यते। ततो द्वयस्य ग्रहणाददोषः। यतस्तेनैव सामान्येन युक्ता विशेषाः समाना इति गृह्यन्त इति। तथापीत्या चा र्यः। द्वयस्य ग्रहणेपि कल्प्यमाने तदिहेति स्यात् । तत् सामान्य यत्पूर्व व्यक्तौ दृष्टन्तदिह व्यक्त्यन्तरे दृश्यत इत्येवं स्यान्न तु समान इति व्यक्तिभ्य एकान्तभिन्नत्वात् सामान्यस्य। तवेवेत्यर्थान्तरभूतं गोत्वादिकं तासां व्यक्तीनां .. साम्यं येन तास्समाना इति चेत् । अन्यः सामान्यात् साऽन्यस्य स्वलक्षणस्य कथं केन प्रकारेण साम्यं । न केनचिदित्यभिप्रायः। तथा हि व्यक्तिरूपानुकारात् सामान्य व्यक्तीनां साम्यं कल्प्येत (1) तच्च नास्ति व्यक्तिभ्योऽत्यन्तंविलक्षणत्वात् सामान्यस्य। नाप्यनेनान्ये समाना येन तत्साम्यं स्यात। न हि व्यक्ति- . रूपानुकारादिना साम्यं किन्तु तत्सम्बन्धात्। व्यक्तिभिः सम्बन्धात्। सामान्य व्यक्तीनां सामान्यमिति चेन्नैतदेवं। किङ्कारणम् (1) अप्रतिबद्धस्य व्यक्ताव
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy