________________
४. सामान्यचिन्ता
२२३
अपि च सामान्यवस्तुवादिवदपि व्यक्तीनां भेद एव कथं तत्र बुद्ध्याकारभेद' इति तुल्यं चोद्यम् । न तुल्यं, तत्र सामान्याभेदादिति चेत् । ननु तत्र तस्य सतोऽपि श्राभासो न लक्ष्यते सा हि बुद्धिर्वर्णसंस्थानवती विभाव्यते । न चेदृशं सामान्यम् । न च ततोऽन्यत्र : प्रभेदाकारोऽपि क्वचित् ।
श्राकृतिसामान्यवादिनोऽपि स तथा विशेषवत् तस्य श्रव्यतिरेकात् श्रर्थावृत्तिरिति भेदात् नाभिन्नः प्रतिभासो युज्यते ।
न्यत्वेन परमार्थतो व्यवस्थापयितुमशक्यत्वादिति संप्रत्येवोक्तत्वात् । तमेवाकारगृहीतबुद्धिस्तदाकारोत्पत्तिरेवास्याः ग्रहणन्तथेत्यरूपस्याकारस्य ग्रहणाद् विप्लवते भ्रान्ता भवतीत्युक्तम्प्राक् । अशक्तिरेषा विकल्पानामविद्याप्रभवत्वादिनोक्तत्वात् ।
दोषस्य परिहारमुक्त्वाऽधुना तुल्यदोषतामापादयन्नाह । अपि चेत्यादि । न तुल्यमिति परः । तत्रेति भिन्नासु व्यक्तिषु तत एव सामान्यात्तुल्याकाराद् बुद्धिरिति न तुल्यं चोद्यं ।
नन्वित्यादि सिद्धान्त वा दी । तत्र व्यक्तिषु तस्य सामान्यस्य सतोष्या (? प्या) भास आकारो न लक्ष्यते । यद्वा तत्रेति विकल्पिकाविकल्पिकायां बुद्धौ । स्यादेतद् ( 1 ) विकल्पिकायान्तस्याभासोस्तीत्याह । सा हीत्यादि । सा हि विकल्पिक बुद्धिर्वर्णसंस्थानवती विभाव्यतेऽनुभूयते । वर्णाद्याकारमेव सामान्यमिति चेदाह । न चेत्यादि । ईदृशमिति वर्णसंस्थानाकारं गुणत्वाद् वर्णसंस्थानादेः सामान्यस्य च गुणव्यतिरेकात् । न च तत इति वर्णसंस्थानादेः ।
एवं तावद् भिन्नं सामान्यं निराकृत्याभिन्नं निराचिकीर्षन्नाह । आकृतीत्यादि । स्वलक्षणानामात्मभूतमेव सादृश्यमाकृतिस्तदेव सामान्यन्तस्य वादः स यस्यास्ति । तद्वा वदितुं शीलं यस्य सां ख्य स्य स तथा । विशेषवत् स्वलक्षणवत् तस्य सामान्यस्य स्वलक्षणादव्यतिरेकाद्धेतोरर्थान्तरे द्वितीयादिव्यक्तिष्व-. वृत्तिः । इति हेतोस्तदपि सामान्यं स्वलक्षणमेव जातन्ततो भेदाद्धेतोर्विद्यमानस्य नाभिन्नः प्रतिभासो युज्यते व्यक्तिष्वित्यध्याहारः ।
तदेव द्योतक राद्यभिहितमभिन्नप्रतिभासमभ्युपगम्य व्यतिरिक्तस्याव्यतिरिक्तस्य च सामान्यस्यायोगाद् भ्रान्तिरेवायं व्यक्तिष्वेकाकारप्रतिभास
इत्युक्तं ।
1 Bām-po bži-pa चतुर्थमाह्निकम्
=