________________
२२२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१०८)
स्मिन्ननेकाकारायोगा(दतिप्रसंगा)च्च। 453a तस्मान्नेयं तदुद्भवा भिन्नार्थग्राहिणी अभिन्ना भाति ।
प्रतत्प्रतिभासिन्यपि अध्यवसायविभ्रमात् व्यवहारयति लोकम्। स तु तस्यां प्रतिभासमान आकारो नार्थेष्वस्ति, अन्यत्र भेदाभेदिनः। स चारूप एव। तमेवाकारं गृहीत्वा तथा विप्लवत इत्युक्तं प्राक् ।
भावात्। (२) द्वितीयस्य पक्षस्याभावमाह। आकारान्तरेत्यादि। सामान्याकारादाकारान्तरेणासाधारणेन स्वज्ञाने चक्षुरादिज्ञाने प्रतिभासनान्न सामान्याकार एव रूपं व्यक्तीनां। (३) तृतीयम्पक्षं निराकर्तुमाह। अनेकाकारायोगादिति । एकस्यानेकत्वमयुक्तमेकानेकत्वयोविरोधात्। अतिप्रसङ्गा च्चेत्येकस्यानेकत्वकल्पनायां न क्वचिदेकत्वं स्यादित्यर्थः। स्वलक्षणं च सामान्यबद्धौ न प्रतिभासते।
यत एवन्तस्मान्नेयं सामान्याकारा बुद्धिः । भिन्नार्थग्राहिणी (1) आहितस्वलक्षणाकारा सत्यभिन्नाकारा भाति । तदुद्भवा भिन्नपदार्थोद्भवा । किन्तु स्वल क्षणग्राहिणोनुभवेनाहितां वासनामाश्रित्य प्रकृत्या भ्रान्तैवेयमुत्पद्यते । पारम्पर्येच व्यक्तयस्तस्याः कारणं कथ्यन्ते ।
यदि सामान्यबुद्धिर्न स्वलक्षणप्रतिभासिनी कथं स्वलक्षणे लोकं प्रवर्त्तयतीति चेदाह। अतत्प्रतिभासिन्यपीत्यादि। अस्वलक्षणप्रतिभासिन्यपि स्वप्रतिभासेऽनर्थेऽअर्थाध्यवसायविभ्रमाद्धेतोर्व्यवहारयति लोकं दृश्यविकल्प्यावेकीकृत्य प्रवर्त्तयतीति यावत्। यदि सामान्यबुद्धिः सामान्याकारा स एव पारमार्थिकन्तर्हि सामान्यम्भविष्यतीत्याह। स तु तस्यामित्यादि। स प्रतिभासमानः सामान्याकारो नार्थेष्वस्ति। तस्य व्यतिरिक्तस्य व्यतिरेकेणानुपलम्भनात्। अव्यतिरिक्तस्य च व्यक्तिवदनन्वयात्।
कथन्तर्हि व्यक्तिष्वभिन्नाकारप्रतिभास इत्याह। अन्यत्र भेदादभेदिन इति। भेदोन्यापोहः स एव प्रतिव्यक्त्यभेदी। तथा हि यथैका गोव्यक्तिरगोव्यावृत्ता तथान्यापि। तदनेन प्रकारेण स्वलक्षणान्येव विजातीयव्यावृत्तान्यभेदीनि भेदइत्युच्यन्ते। अन्यत्र शब्दश्चायम्विभक्त्यन्तप्रतिरूपको निपातः। अन्यशब्दसमानार्थः। न त्वयन्त्रलप्रत्ययान्तः सप्तम्यर्थस्याविवक्षितत्वात् । तेनायमर्थो
यथोक्तेन प्रकारेण स्वलक्षणात्मकाद् भेदादभेदिनोन्यः प्रतिभासमान आकारो82b र्थेषु नास्ति किन्तु स्वलक्षणात्मक एव भेदो' विजातीयव्यावृत्तरभेदी सर्वत्र विद्यतेऽभेदाध्यवसायात। अभेदाध्यवसायस्य च स एव भेदः पारम्पर्येण निमित्तं। -
ननु बुद्धावभिन्नाकारः प्रतिभासते कथमर्थेषु नास्तीत्युच्यत इत्याह। स चारूप इति (1) ह्यर्थे च शब्दः। स हि विकल्पप्रतिभस्याकारो निःस्वभावस्तत्त्वा