________________
४. सामान्यचिन्ता
अभिन्नप्रतिभासा धीर्न भिन्नेष्वति चेन्मतम् ।
नानेकस्मात् एककार्यकरणमिति वाच्यम् । श्रथ चेत् भिन्नेषु प्रर्थेषु तद्व्यवस्थानं, प्रतिभासिनी च न हि स्यात् । न सामान्यप्रतिभासिनीषु स्वलक्षणप्रतिभासः । तदभावेऽपि तासां भावात् श्राकारान्तरेण स्वविज्ञाने प्रतिभासनात्, एक
.२२१
प्रतिभासि विकल्पविज्ञानन्तदपि वर्णसंस्थानाद्याकारमेव । न हि तत्रापि वर्णाद्याकारविविक्तोन्यः सामान्याकारो लक्ष्यते । 4 न च वर्णसंस्थानाद्यात्मकं सामान्यं । तस्मान्न वस्तुस्थित्या सामान्यं प्रतिभासते ( 1 ) तथापि तस्याप्रतिभासिनो भवन्मतेन भावात् । विज्ञाने सामर्थ्यात् । भाव्यते जन्यते कार्यमनेनेति भावः सामर्थ्यमुच्यते । सत्यपि च प्रतिभासने नास्ति सामर्थ्यमिति दर्शयन्नाह । प्रतिभासिनामित्यादि । विप्लवन्ते वस्तुत्वादपगच्छन्तीति विप्लवाः केशादय एव (1) विप्लवा इति विग्रहः । ते हि तैमिरिकादिदर्शने प्रतिभासन्ते तथापि तेषामभावात् । पूर्ववद् भावशब्दव्युत्पत्तेरसामर्थ्यमभावशब्देनोच्यते । विज्ञानजननं प्रत्यसामर्थ्यमित्यर्थः । तदेव सामर्थ्येपि प्रतिभासदर्शनात् प्रतिभासनात् सामर्थ्यमित्यस्यानेकान्त उक्तो भवति ।
“तदैकमुपकुर्युस्ताः कथमेकान्धियं च ने" ति ( १।१०७ )
यदुक्तन्तत्र परस्योत्तरमाशंकते । अभिनेत्यादिना । अभिन्नप्रतिभासा एकाकारा । भिन्नेषु स्वलक्षणेषु । तेषां स्वलक्षणानामाकारस्तदाकारः सोर्पित आहितो यस्याम्बुद्धौ सा तथा ( 1 ) एवंभूता चासावभिन्नप्रतिभासिनी च न हि स्याद् यदि विलक्षणेभ्य एवोत्पद्येत । भवति चाभिन्नप्रतिभासिनी । तस्मान्न विलक्षणेभ्य एवोत्पद्यते किन्तु सामान्यपदार्थादिति ।
नेत्यादिना प्रतिविधत्ते । एतत्कथयति ( 1 ) यदि स्वलक्षणानि स्वाकारा वा (?) तेन सामान्याकाराणां बुद्धीनां जनकानीष्यन्ते तदेतद् युज्यते । भिन्नेषु कथमभिन्नप्रतिभासा बुद्धिरिति । तच्च नास्ति यतो न सामान्यप्रतिभासिनीषु बुद्धिषु स्वलक्षणप्रतिभासः । यस्मात् सामान्यग्राहिणीषु बुद्धिषु स्वलक्षणप्रतिभासाभ्युपगमे तिस्रः कल्पना: । ( १ ) येन रूपेण चक्षुरादिबुद्धिषु व्यक्तयो भासन्ते तेनैव सामान्यबुद्धिष्वपि । ( २ ) सामान्यबुद्धौ वा यद्रूपमाभाति तदेव स्वलक्षणानां । (३) रूपद्वयं वा एकस्य भेदस्याभ्युपगन्तव्यं । येन केन चक्षुरादिबुद्धिषु भासतेन्येन विकल्पबुद्धिष्विति ।
(१) तत्राद्ये पक्षे चक्षुरादिबुद्धिवत् स्वलक्षणाभावे सामान्युबुद्धीनामप्यभावः स्यान्न चैवं । तदभावेपि तस्य स्वलक्षणस्याभावेपि तासां सामान्यबुद्धीनां
82a