________________
२२०
प्रमाणवात्तिकस्ववृत्तिटीका (१।१०८) प्रतिभासनम् । अनुपकारकस्याविषयत्वेऽतीतादीनामविषयता, असतां अनुपकारित्वादिति इति चेत्। भवन्तु तद्विषयाणि निविषयाणि। निविषयत्वेऽपि तद्रूपानुभवाहितवासनाया उत्पद्यमानत्वात्, स ाकारो विज्ञानस्यात्मभूत एव । ___ भावाभावानुविधानात् सामर्थ्य न तु प्रतिभासनात्। 'अप्रतिभासिनोऽपि सामान्यप्रतिभासिनां विप्लवाः केशादयः, तेषां निष्क्रियत्वात्।
सर्वो विषयः स्यात् । माभूद् विषयः प्रतिभा (स)स्तुकस्मान्नेति चेदाह । नाविषयस्येत्यादि। अनुपकारकस्येत्यादि। अनुपकारस्येति पाठान्तरं । तत्र न विद्यते विज्ञानकार्यस्योपकारो यस्मादर्थात् सोनुपकार इति व्याख्येयं । तस्याविषयत्वेऽतीलानागतादीनां। आदिशब्दात् प्रधानेश्वरादीनां यथागमकं कल्पितानां ग्रहणं । असतामित्यसामान्यहेतुः। भवन्त्वित्यादिना सिद्धसाध्यतामाह । तद्विषयाणीत्यतीतविषयाणि (1) निविषयत्वे कथन्तेष्वन्तर्भविष्यति चेत्येवमाद्यर्थानुकारी प्रतिभास इत्यत आह। निर्विषयत्वेपीत्यादि। तदनुपकारीति योसावर्थो
नुभूतोऽतीतश्च तदनु (प) काठी। अस्पष्टेन रूपेणातीतस्यैवार्थस्यानुकारान्नातीता81b दिकन्नाम किञ्चिदस्ति यस्य रूपमनुकुर्यात् । स च प्रतिभासो' विज्ञानस्यात्म
भूत एवास्पष्टरूपस्य बहिरविद्यमानत्वात्। तद्रूपानुकारित्वे कारणमाह । तद्रूपानुभवेत्यादि। यद्रपो वर्तमानार्थानुभवो जातस्तेन या वासना प्राहिता तत उत्पद्यमानं ज्ञानमनुभूतार्थाकारेणोत्पद्यत इत्यर्थः । युक्तमतीते तद्रूपार्थानुभवोत्पत्तिर्वर्त मानावस्थायामर्थस्यानुभूतत्वाद् अनागतादौ कथं । न हि तत्रानुभवो'स्ति। तत्राप्येवम्भूतोर्थो भविष्यतीत्येवंभूताच्छब्दाद् योभिलापसंसृष्टो विकल्पः स एव स्वसंविदितत्वात् तद्रूपोनुभवस्तेनाहितवासनोत्पत्तेरदोषः ।
एवं प्रधानादिविकल्पेष्वपि यथागमं शब्दार्थाकारविकल्पानुभववासनोत्पत्तिाख्येया। एवमतीतादीनामविषयत्वे प्रसङ्गादनुपकारको विषय इति यदुक्तन्तदैकान्तिकमेव । तथा व्यक्ती नामसिद्धोपकाराणामविषयत्वान्नास्ति सामान्यज्ञाने प्रतिभासः। ततश्च यदुक्तं (1) समर्था व्यक्तयो विज्ञाने प्रतिभासनादिति (1) तस्यासिद्धत्वमुक्तं।
अधुना प्रतिभासमङ्गीकृत्यानैकान्तिकत्वमाह। भावाभावेत्यादि। अर्थभावे भावस्तदभावे चाभावो विज्ञानस्य भावाभावानुविधानं । तस्माद्धतोरर्थस्य विज्ञाने सामर्थ्य गम्यते। न तु प्रतिभासनात् । यस्माद् वस्तुस्थित्या सामान्यस्यासत्यपि प्रतिभासने विकल्पविज्ञाने सामर्थ्याभ्युपगमात् । तदेवाह (1) अप्रतिभासिनोपीत्यादि। न हि व्यक्तिव्यतिरेकेण सामान्य प्रतिभासते। यदपि सामान्य