________________
४. सामान्यचिन्ता
२१६
तस्माद् यः कश्चित् क्वचित् प्रतिबन्धः स सर्वो जन्यतायामेवोद्भ- 452b वति। परभावजनने हि तदनुपकारात्, अकिञ्चित्करस्यानुपकारात्। तस्माद् उपकारक-सामान्यविज्ञानजनने व्यक्तमस्य तत्कार्यता।
केवलस्य हि सामर्थ्य क्वचिदपि य(?)त्र सामर्थ्यासिद्धरग्राह्यत्वं व्यक्तीनाम्। विज्ञाने प्रतिभासनात् व्यक्तयः समर्था इति चेत्। प्रसिद्धोपकाराणां कथं प्रतिभासः ? स एव सामान्याभ्युपगमे चिन्त्यते।
यस्माद् अनुपकारकस्याविषयत्वं, अतिप्रसङ्गात् । नाविषयस्य विज्ञाने .
अपेक्षते च परानिति व्याहतमेतत् । व्यापकविरुद्धोपलब्ध्या। तथा ह्यपेक्षाधेया- 8ra तिशयत्वेन व्याप्ता। तद्विरुद्धमनाधेयातिशत्वमिति ।
यः कश्चिद् भावः प्रतिबन्धः कस्यचिद् वस्तुनः क्वचिदाश्रये स सर्वो जन्यतायां कार्यतायामेवोद्भवति । आश्रयेणाश्रितस्यानात्मभूत एवोपकारः क्रियत इति चेदाह । • परभावेत्यादि। तदनुपकारात्तस्योपकार्यस्या'नुपकारात्। न ह्यन्यस्मिन्नुपकृतेन्य उपकृतो नाम। तस्य तदाश्रयत्वेऽनुपकारिणः कोयमाश्रयाश्रयिभाव इति सर्वम्वाच्यं । __ न च पौनरुक्त्यदोषः। पूर्व सामान्यतद्वतोरुपकार्योपकारकभावद्वारेणोक्तमधुना सर्वविषयं वास्तवं सम्बन्धमुपादायेति। तस्मादर्थान्तरकरणादाश्रयाभिमतोकिंचित्करः (1) तथाभूतोप्युपकारक इति चेदाह । अकिञ्चित्करस्येत्यादि। यत एवन्तस्माद् विज्ञानजनन इत्यन्वयिविज्ञानजनने। व्यक्तमवश्यमस्य सामान्यस्य। तत्कार्यता व्यक्तिकार्यता (1)
यथोक्तदोषभयात् केवलस्य व्यक्त्यनपेक्षस्यान्वयिविज्ञानजननं प्रति सामर्थ्यभ्युपगम्यमाने व्यक्तीनां क्वचिदपि काले । अत्रेत्यन्वयिविज्ञाने सामर्थ्यासिद्धे:कारणादग्राह्यत्वं व्यक्तीनां । अकारणस्य विषयत्वायोगात् । विज्ञाने प्रतिभासनादिति। न ह्यसमर्थस्य शशविषाणादेरन्वयिविज्ञाने प्रतिभासनमस्ति । व्यक्तयस्तु प्रतिभास-ते (1) तस्मात् सामान्यवत्ता अपि समर्था इति । असिद्धः सामान्यविज्ञाने उपकारो यासां व्यक्तीनान्ता असिद्धोपकारास्तासां कथं सामान्यविज्ञाने प्रतिभासः (1) नैव । उपकार एव कथमसिद्ध इति चेदाह। स एवेत्यादि। स इत्युपकारः सामान्याभ्युपगमे हि तस्यैव तत्र सामर्थ्यन्न व्यक्तीनां । यथोक्तं ।
"ताभिविनापि प्रत्येक क्रियमाणां धियं प्रती"त्यादि (१११०५)।
माभूद् व्यक्तीनामुपकारः सामान्यविज्ञाने प्रतिभासस्तु कस्मान्न भवतीत्याह। यस्मादित्यादि। अतिप्रसंगादिति। अनपकारकस्य विषयत्वे सर्वस्य विज्ञानस्य
1 Bsam-par-bya-ba.