________________
२१८
प्रमाणवात्तिकस्ववृत्तिटीका (१।१०८) अर्थान्तरेण जनने हि तस्य किं तेन क्रियते। तस्य तदाश्रयत्वेऽनुपकारिणः क आश्रया श्रयिभावः अतिप्रसङगो वा। उपकारेऽपि तत्रैव तत्प्रतिबन्ध इति तत्करणात् तस्योपकारी किमन्योऽपेक्ष्यते ? तदपेक्षस्याश्रयस्य । तदुपयोगेऽनुपकार्यत्वे केयं अपेक्षा नाम ? तदुत्पत्तिधर्मभावप्रतिबन्धत्वादपेक्षते नाम। अनाधेयातिशयत्वेऽपि अपेक्षते च परानिति व्याहतमेतत्।
पि विभ्रतः कश्चिदुपकारको न हीति सम्बन्धः । अतिप्रसङगात्। एवं हि सर्वः सर्वस्योपकारकः स्यात्। तस्मादुपकारकेणैवोपकार्यस्यातिशयो जन्यत इत्यभ्युपेयं । स चातिशय उपकार्यस्यात्मभूत इति जननमेवोपक्रिया। सामान्यादर्थान्तरभूत एवातिशयो व्यक्तिभिर्नान्यत इत्याह। अर्थान्तर इत्यादि । तस्योपकार्यस्य सामान्यस्य किन्तेनार्थान्तरेणोपकारेण क्रियते। तस्य चोपकारस्यार्थान्तरस्य किन्तेन सामान्येन येन तस्य सामान्यस्यासावुपकारसम्बन्धी स्यात्। सामान्यस्य सम्बन्धिन उपकारस्य करणाद् व्यक्तयोप्युपकारिण्यः स्युः। उपकारस्य सामान्यमाश्रयस्तत आश्रयाश्रयिभावलक्षणः सम्बन्धस्तयोरित्यत आह । तस्येत्यादि। तस्योपकारस्य ब्रदाश्रयत्वे। तत्सामान्यमाश्रयो यस्येति कृत्वा । तस्य वा सामान्यस्य तदाश्रयत्वे। तस्योपकारस्याश्रय इति कृत्वा। उपकरोतीत्युपकारी तदभावादनुपकारि सामान्यमुपकारः सामान्यकृतोऽस्त्यस्योपकारस्येत्युपकारी। तत्प्रतिषेधादनुपकारी। अनुपकार्य इत्यर्थः। अर्थद्वयं चैतत्तन्त्रेणोपात्तम् (1)तेनायमर्थः (1) अनुपकारकस्य सामान्यस्यानुपकार्यस्य चोपकारस्य यथाक्रमं क आश्रयाश्रयिभाव इति। अतिप्रसङ्गो वेति। अनुपकारिण आश्रयाश्रयिभावे सर्वत्र तत्प्रसङ्गात् । उपकारे वा सामान्यकृते उपकारस्याभ्युपगम्यमाने। तत्रैव सामान्ये तस्योपकारस्य प्रतिबन्ध इति किमन्यो व्यक्तिभेदस्तस्योपकारस्य करणात् तस्य सामान्यस्योपकारी नैवेति चेत्। तदपेक्षस्येति व्यक्त्यपेक्षस्याश्रयस्येति सामान्यस्य। उपकारं प्रत्याश्रयत्वात् । तदुपयोगे तस्मिन्नुपकारे। उपयोगे कल्प्यमाने नित्यत्वादनुपकार्यत्वे सामान्यस्य केयं व्यक्तिं प्रत्यपेक्षा नाम। नैव। कस्तीपेक्षत इत्यत आह। तदुत्पत्तीत्यादि। तस्मादपेक्षणीयादुत्पत्तिः सा धर्मः स्वभावो यस्य स तदुत्पत्तिधर्मभावः। स्वभावस्य प्रतिवन्धादायत्तत्वादपेक्षते नाम उपकारिणं (1) नामशब्दः प्रसिद्धेोतकः। अनुत्पत्तिधर्मकमपि सामान्यमपेक्षत इति चेदाह । अनाधेयेत्यादि। यत्तरुपकारकैरनाधेयोनुत्पाद्य आत्मातिशयो यस्य स तथा। एवंभूत आत्मीयस्येति पुनर्बहुब्रीहिरेवम्भूतत्वे (?) सामान्यपदार्थ:
1 Illigible.