________________
४. सामान्यचिन्ता
तदेकमुपकुर्युस्ताः कथमेकां धियश्च न ।
भिन्नार्थानां एकार्थयोगविरोधात् सर्वोयं आरम्भः चेत् । यदि ता व्यक्तयो एक सामान्यं उपकुर्य:, आसां विज्ञानेन कोऽपराधः कृतः ? तत्र किमन्तर्गडना सामान्येन कार्यम् ।
यथा भिन्नानामपि तासामेकसामान्योपकारशक्तिरस्ति, एवन्तदेकमेव विज्ञानं कुर्वन्तु ।
अपि च ।
२१७
कार्यश्च तासां प्राप्तोसौ जननं यदुपक्रिया ॥ १०८ ॥
न हि पूर्ववद् अनतिशयात्मानं विभ्रतोऽस्य कश्चिदुपकारकः, अतिप्रसङ्गात् ।
एवं चेतदेकं सामान्यमुपकुर्युस्ता व्यक्तयः कथमेकां धियं च न । एवशब्दार्थे चशब्दः । एकां प्रत्यभिज्ञानात्मिकान्धियमेव कथं नोपकुर्यस्तामेवोपकुर्युरिति यावत् ।
भिनेत्यादिना व्याचष्टे । भिन्नानां विलक्षणानामेकार्थोपक्रिया । प्रत्यभिज्ञाद्येकार्थक्रियाविरोधिन्यसति सामान्य इति सर्वोयं सामान्यसिद्ध्यर्थं प्रारम्भः । आसामिति व्यक्तीनां विज्ञानेन प्रत्यभिज्ञानाख्येनापराधः कृतो यत् तद्विज्ञानन्न कुर्वन्ति ( 1 ) न कश्चित्कृतस्तस्मात्तदेव कुर्वन्तीति भावः । तथा च किमत्रान्तडुना । घंटामस्तकयोरन्तरालवर्त्ती मांसपिण्डोन्तर्गडुस्तेन तुल्यस्तथोक्तः । तद्वन्निष्फलेनेत्यर्थः ॥
स्यान्मतं (1) भिन्नानामेकसामान्योपकारशक्ति रस्त्यतस्ते सामान्यमेव साक्षादुपकुर्वते न तु विज्ञानमित्यत आह । यथेत्यादि । एवन्तदेकमिति सामान्यजन्यं यद्विज्ञानन्तदेव कुर्वन्तु । किं सामान्योपकारेण निष्फलेन । एवम्मन्यते (1) विज्ञाने ob व्यक्तयो न स्वाकारोपधानेन व्याप्रियन्ते ( 1 ) सामान्यज्ञाने स्वलक्षणस्याप्रतिभासनात् । किंत्वाधिपत्यमात्रेण ( 1 ) तच्च यथा सामान्ये तथा तद्विज्ञानेपि तुल्यमिति ।
किं च यदि व्यक्तयः सामान्यमुपकुर्वते तदा तासां व्यक्तीनां कार्यश्चासौ सामान्यात्मा प्राप्तः । यस्माज्जननमेवोपक्रिया ॥
तदेव स्फुटयन्नाह । न हीत्यादि । अतिशयो विशेषस्तदभावादन - तिशयमात्मानं स्वभावमस्य । सामान्यस्योपकारकासन्निधेः पूर्ववदुपकारकसन्निधाने
1 Btsams-pa-yin-la.
२८
2 Rag-mod.