________________
२१६ प्रमाणवात्तिकस्ववृत्तिटीका (१।१०७) ___ इन्द्रिया (? नीला) दीनां चक्षुर्विज्ञानस्य प्रत्येकं सामथ्यं दृष्टमिति समूहे ऽपि शक्तिरविरुद्धा। तथा व्यक्तयो सामान्यमनपेक्ष्य न कदाचित् अन्वयिज्ञानजनिकाः।
तस्मादसमर्था एव व्यक्तयस्तत्रेति तेन न गृह्येरन् । 452a तासामन्यतमापेक्षं तच्चेच्छक्तं न केवलम् ॥१०७।।
अथ कुविन्दस्य वेमाभावे पटाकरणम्। कुविन्दः प्रत्येकं वेमाभावे तत एव कुविन्दाद् न पटोत्पत्तिः।
तथा च व्यक्तीनां प्रत्येक व्यक्तिविज्ञानजननेऽपि न सामान्यं केवलं तद् । स्यादेतत्। अथ किम् । व्यक्तीनाम्मध्ये कामप्येकामपेक्ष्य विज्ञानं जन्यत इति।
एवं सति।
तयाचष्टे। नीलादीनामित्यादि। प्रत्येकमपि सामर्थ्य दृष्टमिति । , नीलादयो हि यथा स्वेन स्वेन रूपेण भिन्नास्तद्वच्चक्षुर्विज्ञानान्यपि। स्वाकारभेदात् । तत्र नीलसहिते न समूहेन यज्जन्यते चक्षुर्विज्ञानन्न तत्तद्विकलेन यच्च तद्विकलेन न जन्यते तदन्यदेव। तस्मात् समूहाकारोपरक्तस्य विज्ञानस्य प्रत्येकन्न नीलादीन्प्रत्यन्वयव्यतिरेकानुविधानाद् गम्यते तेषां प्रत्येकं सामर्थ्यमिति समहेपि शक्तिरविरुद्धा। तथेति नीलादिवत्। न कदाचिदिति प्रत्येक संहता वा। __एतदाह। यदि शावलेयसहितसामान्यजन्यं गोज्ञानमन्यदन्यच्च बाहुलेयसहायजन्यं स्यात् (।) तदा व्यक्तीनां प्रत्येकं स्वाश्रयद्वारभाविज्ञाने शक्तिर्गम्येत । किन्त्वेकमेव सर्वासु व्यक्तिषु प्रत्यभिज्ञानन्तस्य सर्वत्रैकाकारत्वात् । प्रत्येक व्यक्तीनां चाभावेपि सामान्यादेवास्योत्पत्तेः। तस्मादसमर्था एव व्यक्तयस्तत्र सामान्यज्ञाने। इति हेतोस्तेन सामान्यज्ञानेन न गृह्येरन् ।।
तासाम्व्यक्तीनाम्मध्येऽन्यतमापेक्षमिति कांचियक्तिमपेक्ष्येत्यर्थः। तदिति सामान्यं केवलं व्यक्तिनिरपेक्षं। .. . अथेत्यादिना व्याचष्टे। कुविन्दस्तन्तुवायः। बहूनां वेमानाम्मध्ये प्रत्येक वेमाभावेप्येकेनान्यतमेन पटं करोतीति (1) यद्यपि सर्वेषां व्यभिचारस्तथापि न तत एव कुविन्दादेव वेमरहितात् पटोत्पत्तिः शक्या वक्तुं । यस्मान्न वेमरहितः कुविन्द: पटं करोति केवलस्य पटकरणाशक्तेः। तथा च न सामान्यं केवलन्तखेतुर्विज्ञानहेतुः।
एवमि त्या चा र्यः । तासामन्यतमापेक्षं सामान्यं शक्तमिति ब्रुवता व्यक्त्युपकार्य सामान्यमिष्टमनुपकारिण्यपेक्षायोगात् ॥