________________
.
४. सामान्यचिन्ता
- २१५ ताभिविनापि प्रत्येक क्रियमाणां धियं प्रति ॥१०५॥
तेनैकेनापि सामर्थ्यन्तासां नेत्यग्रहो (धिया।' कथं तत्र तद्व्यक्तीनां सामर्थ्य प्रतीयते। तदभावाद् ताभिः प्रत्येकं विनाऽपिअसति सामान्येऽभावात् इतरथा च भावात्।। ___ नैष दोषः । यथा नीलादीनामेकैकापायेऽपि चक्षुर्विज्ञानमुत्पद्यते तेषां समूहेऽपि नासामर्थ्य, तथेहापि एककापायेऽपि जननात् न सर्वदा सामार्थ्यमिति चेत् । विषम उपन्यासः । एवम्--
नीलादेनेत्रविज्ञाने पृथक् ) सामर्थ्यदर्शनात् ॥१०६॥ शक्तिसिद्धिः समूहेपि नैवं व्यक्तः कथञ्चन ।
प्रत्यभिज्ञानात्मिकां प्रति सामर्थ्यन्तासां व्यक्तीनां नास्ति। इति हेतोरग्रहो धिया सामान्यज्ञानेन तासां व्यक्तीनां ।
तदेवाह (1) कथमित्यादि। तत्र ज्ञाने सामान्याकारे। तद्भावादिति सामान्यप्रत्ययस्य भावात्। एतेन व्यतिरेकाभाव उक्तः। प्रयोगस्तु यो यदभावेपि भवति न तत्तन्निमित्तं यथा शालिबीजाभावेपि भवन् यवाङकुरः। भवति च प्रत्येकं शावलेयाद्यभावेपि बाहुलेयादौ गोबुद्धिरिति व्यापकविरुद्धः । तन्निमित्ततायास्तदभावेन व्याप्तत्वात्। सामान्यस्य तु तत्र शक्तिरित्याह। असतीत्यादि। असति सामान्य सामान्यबुद्धेरभावात्। अनेन व्यतिरेक उक्तः। इतरथा चेति सति सामान्ये सामान्यबुद्धेर्भावात्। अनेनान्वय उक्तः ॥ .. यदि सामान्यसहितानामेव व्यक्तीनां सामान्यबुद्धि प्रति सामर्थ्य मिष्यते। तदा तथोक्तन्यायेन सामान्यस्यैव शक्तिर्न व्यक्तीनामिति।
नैष दोष इत्याह परः। एकापायपीत्येकैकस्यापायेपीत्यर्थः । तथा हि यथा नीलांदिसमुदायालम्बनं चक्षुर्विज्ञानमुत्पद्यते। तत्र चैकैकस्मिन् नीलादावपनीते भवत्येव परिशिष्टे च वर्णससमूहे चक्षुर्बुद्धिर्न चेयता नीलादीनामसामर्थ्य समूहे किन्तु सामर्थ्यमेव। प्रत्येकं नीलादीनां समूहज्ञाने। तथेहापि व्यक्तिष्वेककापायेपि भवति सामान्यविज्ञानमिति । नेयता प्रत्येकं सर्वदा व्यक्तीनामसामर्थ्यमिति सम्बन्धः। ततश्च यो यदभावेपि भवतीत्यादि प्रयोगेऽनेकान्त इति ।
विषम इ त्या चा र्यः। उपन्यस्यत इत्युपन्यासो नीलादिदृष्टान्तस्तस्य प्रक्रा- 8oa न्तेन साम्यन्नास्तीत्यर्थः। नैवं व्यक्तेः कथंचनेति। न प्रत्येकं समस्तानां व्यक्तीनां सामर्थ्यमित्यर्थः।