SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१४ प्रमाणवात्तिकस्ववृत्तिटीका (१।१०४) स्यादेतद् । एकवस्तुस(हायाश्चेद् व्यक्तयोञ्जनकारणम् ) ॥१०३॥ 45 Ib स्यादेतद् । व्यक्तयस्तदुपलम्भवस्तुकारणं, न केवलाः, यदा तस्य एक सहकार्यस्ति तदा तत्सहितग्रहणात् । तदेकं वस्तु किं तासां नानात्वं समपोहति । नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥१०४॥ ___ तदेकं तासां व्यवहारसमय इति। किमिति नानात्वं तदेकविज्ञानानुत्पादेकारणमुच्यते। अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् । न च भेदात् अनेका जनयत्येवैकं विज्ञानमिति उक्त। न भेदाजननविरोधीः। किं पुनः ? सम्बन्धात्' विरोधः। तेनैकमेव सहकारीति चेत् । एवं तु-- 70b गृहीते गोद्रव्ये ऽश्वप्रतिपत्त्या प्रतिपत्तिरस्ति। एकवस्तुसहाया इति सामान्यसहायाः। स्यादेतदित्येतस्यैव व्याख्यानं। तस्येति ज्ञानस्य। एकं सहकार्यस्तीति सामान्यं सहकारि भवतीत्यर्थः। तदा तत्सहिताः सामान्यसहिताः। एवं च सामान्यतद्वतोयोर्ग्रहणात् सामान्यप्रतिपत्त्या तद्वति प्रतिपत्तिः सिद्धेति भावः॥ ___तदित्या चा यः। एकम्बस्तु सामान्यन्तासां व्यक्तीनां नानात्वं समपोहत्यपनयति। किं पुनस्तासां नानात्वापोह इष्यत इत्याह । नानात्वाच्चेत्यादि। ह्यर्थः च शब्दः। तास्विति व्यक्तिषु। किमित्यादिना व्याचष्टे। तेनैकेन सामान्येन । भेदेषु यन्नानात्वन्तदेकविज्ञानाकारणत्वे भेदानां कारणमुच्यते। नानात्वाद्वयक्तयो नैक विज्ञानं जनयन्तीति। एकसामान्यसम्बन्धेपि यदि भेदानान्नानात्वादप्रच्युतिर्न तेष्वेकाकारं विज्ञानमिति पूर्ववद्वयक्तीनामग्रहणं॥ ___अनेकमपि व्यक्तिरूपं । एकमिति सामान्यं । नेत्यादिना व्याचष्टे। यदि भेदाजननविरोधी स्यात् तदा सत्यपि सामान्ये भेदान्न जनयंत्येवैकं विज्ञानं । ताभिरिति व्यक्तिभिः (1) किं पुनः समस्ताभिरेव विना। नेत्याह । प्रत्येकमिति। तथा हि शावलेयाभावे बाहुलेये गोबुद्धिस्तथा तदभावेन्यत्राप्येवम्प्रत्येकं सर्वासां व्यक्तीनामभावेपि । तेनैकेन सामान्येन क्रियमाणां घियं 1 Bral-bas.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy