________________
४. सामान्यचिन्ता
२१३ संयोज्य प्रत्यभिज्ञानं (कुर्यादप्य)न्यदर्शने ।
परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥१०१॥ . न हि परस्यापि सा बुद्धिः केवलात् सामान्यात् जन्यत इति कथनं युक्तम्।
नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः। यद्यनया बुद्धचा नित्यं सामान्यं गृह्यते, अनेन ज्ञानेन व्यक्तिरनित्यैव स्यात् ।५
(ङ) तद्वत्तानिश्चयः तदा कदाचित्संबद्धस्यागृहीतस्य तद्वतः ॥१०२॥
तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् । यदा सामान्याग्राहि विज्ञानं न भेदोपलब्धावुपयुक्तं, तदा न तो कदाचिदपि सम्बन्धाप्रतिपत्तौ इदमस्य सामान्यम्। न चेदं तद्वत् इति। तथा च तत्प्रतिपत्त्या तद्वति न प्रवृत्तिः, अर्थान्तरवद् ।
स्वलक्षणमात्रन्ततो जन्म यस्य विकल्पविभ्रमस्य स तथा विकल्प एव विभ्रम इति विग्रहः। न व्यतिरिक्तस्य सामान्यस्य दर्शनात् । इहेति प्रतीतिप्रसङ्गात् । नाव्यतिरिक्तस्य सामान्यस्य दर्शनात् । प्रत्यभिज्ञानमिति प्रकृतेन सम्बन्धः । व्यक्तिवदनन्वयादिति। व्यक्त्यात्मके तद्वदेव तस्यानन्वयात् सामान्यरूपमेव नास्तीति ।।
परस्येति सामान्यवादिनः। सेति सामान्याकारा। केवलादिति व्यक्तिनिरपेक्षत्वात्। (११०१॥)
न हीत्यादि विवरणं। कस्मान्नाहेतीत्याह। नित्यमित्यादि। तन्मात्रविज्ञान इति सामान्यमात्रग्रहे।
यदीत्यादिना व्याचष्टे। अनयेति सामान्याकारया। अनेन ज्ञानेनेति सामान्यालम्बिना। । तदेति व्यक्तेरग्रहे। सम्बद्धस्य सामान्ययुक्तस्य तद्वतः सामान्यवतः॥
तद्वत्ता सामान्यवत्ता। यदि सामान्यन्तदाश्रयश्च तेन ज्ञानेन गृह्येत तदोभयग्रहण पूर्वकस्तद्वत्तानिश्चयो (न) भवेत् । ततः सामान्यग्रहाद् व्यवहारो व्यक्तौ प्रवृत्तिः कथन्लव।
यदेत्यादिना व्याचष्टे । न ताविति सामान्यतद्वन्तौ। इदमस्य भेदस्य सामान्यं। तथा चेति सामान्यतद्वतोः सम्बन्धाप्रतिपत्तौ। तत्प्रतिपत्त्या सामान्यप्रतिपत्त्या। तद्वति सामान्यवति। अर्थान्तरवदिति न ह्यश्वप्रतिपत्तिकाले तद्रूपेणा