________________
२१२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१००)
बन्धा नियमात् न हि विकल्पा उत्पद्यन्ते। सति मरीचिकादर्शने तदुद्धवा जलभ्रान्तिरिति अजलविवेकिनार्थेन स्वभावानुकारार्पणेन जननात् न यथास्वभावम् । तु सा विशेषलक्षणापाटवात् प्रत्ययापेक्षिणा वा स्ववासनाप्रबोधन जन्यते। तस्माद् भिन्नभावजन्मा विकल्पविभ्रमो भ्रान्त्या' स एवायमिति प्रत्यभिज्ञानम्, न व्यतिरिक्तस्य सामान्यस्य दर्शनात, न व्यतिरिक्तोस्य, व्यक्तिवदनन्वयात् ॥१०॥
अपि च।
स्तथा सत्त्यजलादपि जलत्वशून्याज्ञातो जलविकल्पस्तस्याप्यतस्मिस्तद्ग्रहप्रवृत्तत्वाद् भ्रान्तत्वं । तत्कुत एतदेकस्यार्थसम्वादो परस्य नेत्याह। मरीचिकेत्यादि। अन्यस्य चेति सत्त्यजले जलज्ञानस्य जलत्वसामान्यस्याभावान्मरीचयो जलं च भिन्नो भावस्तत उत्पत्तिस्तस्या अविशेषेपीति सम्बन्धः । विभ्रस्मय चाविशेषेपीति जलरहिते मरीचिद्रव्ये यथा जलसामान्याध्यारोपाज्जलविकल्पो विभ्रमस्तथा ' सत्त्यजलेपि तस्याप्यतस्मिंस्तद्ग्रहरूपत्वादनभिप्रेतार्थक्रिया
पानादिः। तस्यां योग्यं जलस्य स्वलक्षणमयोग्यं मरीचिकानां। तत उत्पत्तेर्हेतोः 79a सत्त्यजले मरीचिकासु च जलविकल्पस्य । यथाक्रम सम्वादेतरौं' इतर इत्यसम्वादः । अयोग्यमरीचिकास्वलक्षणात् । न ह्यजलरूपं जलाकारस्य योग्यमिति मन्येत ।
विकल्पेत्यादिना परिहारः। अर्थप्रतिबद्धोकारानुविधानेनोत्पत्तिः। तदेव व्याचष्टे। न हीत्यादि। यथार्थमिति पदार्थानतिवृत्तावव्ययीभावः। एवकारश्च भिन्नक्रमः । नैव हि पदार्थानुरूपं ग्राहकमुत्पद्यत इत्यर्थः ॥ . ___ कथन्तहि जलज्ञान स्य मरीचिकाभ्य उत्पत्तिरुक्तेति चेदाह । सतीत्यादि। मरीचिकासु चक्षुर्विज्ञानादौ भ्रान्तमुपजायते तस्मिन् सत्यनुभूताकार।ध्यारोपिणी जलभ्रान्तिरिति पारम्पर्येण तदुद्भवा मरीचिकोद्भवेत्युच्यते। यथास्वभावमिति पूर्ववदव्ययीभावः। जलभ्रान्तिजननासमर्थं घटाद्यजलमित्युक्तं। ततो विकिना जलभ्रान्तिजननसमर्थेनेति यावत्। एवंभूतेन मरीचिकाख्येनार्थेन । न यथास्वभावं जननात् तदुद्भवेत्युच्यते इति सम्बन्धः । यथा स्वभावमित्यस्यैवार्थः (1) स्वभावानुकारेत्यादि। स्वभावमनुकरोतीति स्वभावानुकारः। स्वलक्षणानुरूपं प्रतिविम्बकन्तस्यार्पणेन ज्ञाने समारोपणेन। सा पुनः केन साक्षाज्जन्यत इत्याह। सात्वित्यादि । सेति जलभ्रान्तिर्जलात मरीचिकाया यो विशेषस्तस्य लक्षणम्भेदेनावधारणन्तत्रापाटवाद्धेतोः। स्ववासना। जलभ्रान्तिबीजन्तस्याः प्रबोध आनुगुण्यं तेन जन्यते। किम्विशिष्टेन प्रत्ययापेक्षिणा प्रत्ययो मरीचिकादर्शनं जलसाधर्म्यस्मरणं च। तस्मादित्युपसंहारः। विजातीयाद् भिन्नो भावः