________________
४. सामान्यचिन्ता
द्वयप्रतिभासात् इति वाच्यम् । सर्वेषां विप्लवत्वे च प्रमाणतदाभासयोर्व्यवस्था हि आश्रय परावृत्तेः, अर्थक्रियायोग्याभिमतसंवादनात् । मिथ्यात्वेऽपि प्रशमानुकूलत्वात् । मातृसंज्ञादिवत् । मरीचिकासु जलसंज्ञा, अन्यस्य च भिन्नभावोत्पत्तेः 7 विभ्रमस्य चाविशेषेऽपि अभिप्रेतार्थक्रियायोग्यायोग्योत्पत्तेः यथा- 451a क्रमं संवादेतरौ । अयोग्यात् उत्पत्तेरिति चेत् । विकल्पानां अर्थप्रति
२११
( 1 ) अत एव द्वयनिर्भासवतां स्वसंवित्तेः प्रत्यक्षत्वेपि न तत्त्वदर्शित्वं व्यवस्थाप्यते प्रमाणाप्रमाणविभागः । कथमिति चेदाह । सर्वेषामित्यादि । विप्लवो भ्रान्तत्वं । तदाभासः । प्रमाणाभासः । तयोर्व्यवस्थाविभागः । आश्रयो भ्रान्तिबीजमालयविज्ञानन्तस्य परावृत्तिरावरणविगमः । आङ् मर्यादायाम् (1) आश्रयपरावृत्तेः सर्व-दार्थक्रियायोग्याऽभिमतसम्वादनात् प्रामाण्यव्यवस्थेति सम्बन्धः । अर्थक्रिया दाहपाकादिनिर्भासविज्ञप्तिलक्षणा । तस्यां योग्यं च तदभिमतं पुरुषस्येष्टत्वात् । तस्य सम्वादनादिति विग्रहः । अभिमतस्येव सम्वादनादित्यवधारणं न पुनस्सम्वादनादेवेति प्रमाणादपि कदाचित् प्रत्ययवैकल्येन सम्वादासम्भवात् । अर्थक्रियायोग्याभिमतसम्वाद'नादित्युपलक्षणं ( 1 ) तथाभिमतासम्वादनादित्यपि द्रष्टव्यं ।
भावात्
एवं हि प्रमाणाभासव्यवस्थायाः कारणमुक्तम्भवेत् । विज्ञानवादे बाह्याकथमर्थक्रियायोग्याभिमतसम्वादनं । नायन्दोषोग्निर्जलनिर्भासस्यैव ज्ञानस्य दाहपाकादिनिर्भासज्ञानोत्पादनसमर्थस्य योग्यशब्देनाभिधानात् । एव• तावच्चक्षुरादिविज्ञानस्य धूमादिलिङ्गजन्यस्य चाग्न्यादि निर्भासिनः प्रमाणव्यवस्थोक्ता। कृतकादिलिङ्गजन्यस्य त्वनात्मादिज्ञानस्याह । मिथ्येत्यादि । सामान्याकारारोपप्रवृत्तत्वादनात्मादिज्ञानस्य मिथ्यात्वं । तथापि प्रशमानुकूलत्वात् प्रामाण्यं प्रशमो रागादिप्रहाणं । अनात्मादिसामान्याकारेण वस्तु गृहीत्वा भावयताम्भावनानिष्पत्तावनात्मादिस्वलक्षणप्रत्यक्षीकारेण रागादिप्रहाणात् । कस्य पुनर्मिथ्यात्वेपि प्रशमानुकूलत्वं दृष्टमित्यत आह । मातृसंज्ञेत्यादि । अमातरि मातृसंज्ञा मिथ्यापि सती । रागानुत्पत्तिकारणं । इयता च साधर्म्येणायं दृष्टान्तः । न तु मातृसंज्ञादिकं प्रमाणं । आदिशब्दाद् भगिन्यादिसंज्ञापरिग्रहः । षष्ठ्यर्थे चायम्वतिः ।
बाह्यार्थदर्शनेपि वस्तुभूतसामान्याभावाद् यदि सर्वो विकल्पो भ्रान्तस्तत्र यथा जलसामान्यरहितत् (म) रीचिस्वलक्षणादुत्पन्नो जलविकल्पो भ्रान्त
1 Hgal-ba-med,