________________
२१०
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।१००)
विभ्रमः । अविद्योद्भवाद् विप्लवत्वे चक्षुराविष्वपि प्रसंग इति चेत् । न । तस्या विकल्पलक्षणत्वात् । विकल्प एव हि सा (अविद्या) 1 स्वभावेनैव तानि विपर्यस्तानि । नैवमिन्द्रियज्ञानानि विकल्पकानि । न वा तेष्वपि एष दोषः, अद्वयानां
न्तावदर्थोत्र नाभिप्रेतः । एतच्चोत्तरत्र व्यक्तीकरिष्यते ।
चोदकस्त्वविद्याप्रभवादित्यत्राविद्याशब्देनाप्रहीणावरणसन्तती द्वयनिर्भासबीजमेवोक्तं । ततश्चोद्भव उत्पत्तिस्तथा आन्तरोपि विप्लवस्तदैव बीजमे वंभूतं चाविद्योद्भवत्वं सर्वविज्ञानानामस्तीत्यत आह । अविद्योद्भवाद् विप्लवत्व इत्यादि । अविद्याया उद्भवादुत्पादाद् विप्लवत्वे भ्रान्तत्वे चक्षुर्विज्ञानादिष्वपि विप्लवप्रसंगः। नेत्यादिना स्वाभिप्रायमाह । तस्या इत्यविद्यायाः सामान्याकारारोपकं ज्ञानम्विकल्पस्तल्लक्षणत्वात् । तदाह । विकल्प एव हीत्यादि । सेत्यविद्या । स्वभावेनेति प्रकृत्या । नैवमित्यादिना प्रसंगं परिहरति । तेषां स्वलक्षणाकारत्वेनाविकल्पकत्वात् । तस्मान्न तानि विकल्पवत् स्वभावेन विपर्यस्तानि इन्द्रि यादिविकारेण तु केषांचिद् भवति भ्रान्तता ।
बाह्यार्थनयेनोक्ताऽधुनान्तर्ज्ञेयनयेनाह । न चेत्यादि । एतदाह । भवतुनाम यादृशश्चोद्याकारेणाविद्याशब्दस्यार्थः कल्पितस्तथाप्यति' प्रसङ्गदोषो नास्तीष्टत्वादिति । न वा तेष्वपि चक्षुरादिज्ञानेष्वेष भ्रान्तत्वदोषस्तेषामपि विप्लुतत्वात् । तदेवाह । अद्वयानामित्यादि । चक्षुरादिविज्ञानानामात्मसम्वेदनमेवाद्वयन्नात्र द्वयमस्तीति कृत्वा । तथा हि विज्ञानसमानकालम्विच्छिन्नप्रतिभासि । ग्राह्यत्वेनाभिमतं नीलादि । एकानेकविचाराक्षमतया न परमार्थसत् । तदपेक्षया च यद्विज्ञानस्य ग्राहकत्वं कर्त्तृ रूपन्तदप्यसत् । न तु सम्वेदनन्तस्य प्रत्यक्षत्वात् । भ्रान्तग्राहकाकाराव्यतिरिक्तत्वात्स्वसम्वित्तेरपि भ्रान्तत्वमिति चेन्न तस्याः स्वरूपेणासत्त्वे प्रतिभास एव न स्याच्छशविषाणवत् । भ्रान्तेरपि च स्वरूपेण सत्त्यत्वमन्यथा भ्रान्तित्वायोगात् । स्वरूपविज्ञानैकरूपं ज्ञानञ्च स्वस78b विद्रूपमेवेति कथन्न ( संवित्तेः सत्त्यत्वं । यद्वा द्वयप्रतिभासो भ्रान्तिर्भ्रान्तिश्च तत्त्वाधिष्ठाना । द्विचन्द्रादिभ्रान्तिवत् । तत्त्वं च द्वयविपरीतमद्वयन्तच्च स्वसम्बिद्रूपमेव ( 1 ) न तु द्वयाभावतास्यासत्त्वादिति कथं न सा सम्वित्तेः. . तदेवं यथोक्तचोद्य
. यानि च ग्राह्यग्राहकरूपेण प्रतिभासनात् तान्यपि भ्रान्तानीति)
1 Stram-pa-yin-no.
.. स्याद्
वक्ष्यामः तृतीये परिच्छेदे
2 In the margin, illigible.