________________
२०६
४. सामान्यचिन्ता सति सामान्यग्रहे तदारोपो नान्यथा, अतिप्रसंगःस्यादिति । सति एककार्यकारिणां ग्रह किन्नेष्यते। दृष्टे सामान्येऽवश्यं च व्यक्तीनां स्वार्थ जननशक्तिरभ्युपेया।
ततस्त एवान्येभ्यो भिन्ना तादृशं ज्ञानं जनयन्तीति चेत्, तत्र सामान्येन किं करणीयम् ? यथाभावं असंसृष्टभेद एव किन्न प्रत्येति अविद्याप्रभवात् विकल्पानां न च वाह्यार्थमनपेक्ष्य विभ्रमो भवति, अपि तु आन्तरं विप्लवम् । यथा केशादि
सतीति सिद्धान्त वा दी। एक कार्य पानावगाहनादि तत्करणशीलानां सत्त्यजलानां ग्रहे सति किन्नेष्यते जलारोपः। सामान्यमन्तरेण भिन्नानामेककार्यकरणशक्तिरेव नास्तीति चेदाह। अवश्यं चेत्यादि। प्रतिपादितं चैतद् (1)
"एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधन" (३।७२) इत्यत्रान्तरे। ‘अन्ये तु न हि तत्रान्यदेव किंचित् सामान्यमस्तीत्यादिकं ग्रन्थं सामान्यशब्द सादृश्यार्थं कृत्वा व्याचक्षते। तत्तेषां व्याख्यानन्नातिश्लिष्टं यत्तथा प्रतीयत इत्यादेरवाचकत्वात् । न हि सादृश्यं जलरूपतया प्रतीयत इति।
तत इत्येककारणशक्तेः। त एवेति यथोक्त शक्तिषु युक्ता व्यक्तय एव न तु सामान्यं । अन्येभ्य इत्यतत्कार्येभ्यः। तादृशमित्येकाकारं। यथाभावमिति पदार्थानतिवृत्तावन्वयीभावः। यथा स्वलक्षणं सामान्यविरहि स्थितं । तदतिवृत्त्या किन्न प्रत्येति विकल्पप्रत्ययः (1) कस्मात्तत्राभूतं सामान्यमारोपयति। यथाभावमित्यस्यैवार्थोसंसृष्टत्यादि। असंसृष्ट एकरूपतामना'- 78a पन्नः । भेदः परस्परं विशेषो यस्य भावस्य स तथा। अशक्तिरेषा। यथावस्थितग्रहणंप्रति विकल्पानां। कस्मात् अविद्याप्रभवात् । भूतार्थग्रहणं विद्या। तद्विरोधाद् विकल्प एवाविद्या। प्रभाव एव प्रभवशब्देनोक्तः। विकल्पसामर्थ्यादित्यर्थः। यथास्थितवस्त्वग्रहणं हि विकल्पस्य स्वभावः प्रकृत्या भ्रान्तत्वात् तस्य वस्तुभूतं सामान्यं विनाश एव विकल्पस्य विभ्रमो न युक्त इति चेदाह। न चेत्यादि। विकल्पस्वरूपमेवात्रान्तरो विप्लव उक्तः। विकल्पस्यैव तत्स्वरूपं येनासौ बाह्यसाधर्म्यमनपेक्ष्य विभ्रमो भवतीत्यर्थः । केशाद्याकारा भ्रान्तिः केशादिविभ्रमः (1) स यथा बाह्यार्थानपेक्षः सन्नभूताकारोपग्रहणमान्तरम्विप्लवमाश्रित्य भ्रान्तो भवति । तद्वद् विकल्पोप्यभूतसामान्याकारग्रहणादित्ययमत्रार्थोभिप्रेतः। भ्रान्तिबीजमान्तरो विप्लवस्तस्मादुत्पत्तरित्यय
1 Lhun-ba-la brgyus-pa-dug.
२७