________________
450b
प्रमाणवान्तिकस्ववृत्तिटीका ( १|१०० )
निमित्तानुभवजनको कारणम् । न तत्रान्यदेव किंचित् सामान्यं तथा प्रत्ययभूतम् । सत्त्वे वा सदर्थग्राहिणी बुद्धिः भ्रान्तिर्न स्यात् ।
अभूताकारसमारोपाद् भ्रान्तिरिति चेत् । न । तत्सामान्यग्राहिणी सा भवति । यमेव चाकारमियं आरोपयति, स एव तस्य विषयः । अविषयीकृतस्य समारोपो ऽसामर्थ्यात् । आकारान्तरवत् । स च तत्र नास्त्यत: सामान्यं न विद्यते ।
२०८
म्बन्धित्वन्ततो नेति बाधके प्रत्यये न देशादिसम्बन्धित्वं बाध्यते न जलसामान्यमतो 77b जलज्ञानं सामान्यालम्बनमेवेत्यत उच्यते ' । न तत्र मरीचिकासु अन्यदेवेति भिन्न किंचित् सामान्यं जलसामान्यन्तथेति जलरूपेण । सत्त्वे वा जलसामान्यस्याभ्युपगम्यमाने वस्तुभूतसामान्यग्राहित्वेन सदर्थग्राहिणी बुद्धिः ।
अथ स्याद् (1) अन्यदेशाद्यवस्थितजलसामान्यालम्बिकैव जलबुद्धिर्न भ्रान्तिस्तदुक्तं (1)
“सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकमिति । "
कथन्तर्हि मरीचिकायां' जलप्रतीतिर्भ्रान्तिरन्यदेशाद्यवस्थितस्य जलसामान्यस्य तत्र समारोपादिति चेत् । एतदेवाह । अभूतेत्यादि । मरीचिकास्वविद्यमानस्य जलाकारस्य समारोपाद् भ्रान्तिः ।
त्यादि सिद्धान्तवादी । तत्सामान्यग्राहिणी अन्यदेशावस्थितजलसामान्यग्राहिणी सा जलबुद्धिर्न भवति । कस्मादित्याह । यमेव चेत्यादि । यमेवाकारमित्यभूतं जलाकारमियं जलबुद्धिस्तत्र मरीचिकास्वारोपयति । आरोप्यमाणस्यापि कस्माद् विषयत्वमित्यत आह । अविषयीकृतस्येत्यादि । एतदाह ( 1 ) विकल्पोत्पत्तिकाले यत्सामान्यं न विषयीकृतन्तेन न तस्य समारोपः । आकारान्तरवत् । न ह्याकारान्तरमग्न्यादि तत्र समारोप्यते तस्य तदानीमविषयत्वात् । यश्चाकारो बाह्याभेदेनारोप्यते तस्यैव विषयत्वेन प्रतिभासनं । स चेत्यारोप्यमाणो जलाकारस्तत्र मरीचिकासु नास्ति बाध्यमानत्वादतो सामान्यं जलज्ञानन्न विद्यते सामान्यमस्येति कृत्वा । तथा मरीचिकावत् सत्त्यजलेष्वपि जलाकाराध्यारोपकं जलज्ञानमसामान्यं ।
सतीत्यादि परः । अन्यदेव जलसामान्यं सति तस्य ग्रहे तदारोपो जलारोपः नान्यथा ( 1 ) यदि जलसामान्यमन्तरेण सत्यजले जलारोपः स्यात् तदाऽतिप्रसंग ः । अग्न्यादावपि जलारोपः स्यात् ।
1 Slokavārtika. निरालम्वन0 108