________________
४. सामान्यचिन्ता
२०७
ज्ञानम्। तदेवेदमित्यथ कथम् ? अन्यदस्ति। ततः एकं अनेकत्र पश्यतोऽपि भेदसंसर्गवत् न युक्तम्। विभ्रमवशात् तथा प्रतिभासने हि अविरोधः। निमित्ताभावात् विभ्रमो न युक्त इति चेत्। त एव तदेकार्थकारिणो भावा अनुभवद्वारेण प्रकृत्या विभ्रमफलाया विकल्पवासनाहेतुत्वात् निमित्तम् । मरीचिकादिषु जलादिभ्रान्तेर् भिन्नावपि अभिन्नाकारस्य परामर्शप्रत्ययस्य
नामप्येकसामान्ययोगान्न स एवायमिति प्रतीतिः स्यादपि तु तदिहेति।
भवत्वेवमिति चेदाह। नैवमित्यादि। तदित्यादिनोपसंहारः। एकमिति समानमनेकत्र व्यक्तिषु पश्यतोऽपि पुंसो भेदसंसर्गवत्। भेदानां संसर्ग एकाकारता तद्वज्ज्ञानं न युक्तं। अन्यापोहवादिनस्त्वयमदोष इत्याह। विभ्रमेत्यादि। भ्रान्तिसामर्थ्यादित्यर्थः । तथेत्येकरूपतया वस्तुभूतमेकं सामान्यं प्रत्यभिज्ञानस्य निमित्तन्तस्याभावाद् विभ्रमो न युक्तमिति चेत्। त एवेति व्यावृत्ता भावास्तस्य ज्ञानादेरेकस्यार्थस्य कारिणः करणशीलाः। अनुभव एव द्वारं हेतुस्तेन प्रकृत्या स्वभावेन विभ्रमफलाया भ्रान्तिफलाया हेतुत्वान्निमित्तं।
ननु मरीचिकादिषु जलादिभ्रांतेः सादृश्यमन्तरेणोत्पत्तावतिप्रसंगः । सादृश्यं चेदिष्यते सामान्यमपि कस्मान्नेष्यत इत्याह। मरीचिकादिष्वित्यादि। प्रथमेनादिशब्देन रज्वादिपरिग्रहः। द्वितीयेन सर्पादिभ्रान्तेः। तावेवेति जलमरीचिकारूपौ भावो अभिन्नाकारस्य तदेवेदं जलमित्येवं रूपम्परामर्शप्रत्ययस्य निमित्तभूतो योनुभवस्तस्य जनकौ कारणं भिन्नावपि ।
एतदुक्तम्भवत्यसदृशानान्तावन्न सादृश्यमस्ति । सदृशानामपि सदृशमेव स्वरूपं भ्रान्तिनिमित्तं । न तु सादृश्यं । तथा हि जलानुभवज्ञानन्ताव (त्)जलाकारपरामर्शवासनामाधत्ते। सा च वासना यथा पुनर्जलस्वलक्षणानुभवेन प्रबोध्यते। तथा मरीचिकाख्यपदार्थानुभवेनापि प्रकृत्या। तस्य तत्स्वभावत्वात् । ततो यथा जलानुभवाज्जलाकारपरामर्शप्रत्यय उच्यते। तथा मरीचिकानुभवादपि। अतश्च तौ जलमरीचिकाख्यौ भावानुभवद्वारेण जलभ्रान्तेनिमित्तं भवतः । न चातिप्रसङ्गः। तुल्येप्यजलरूपत्वे मरीचिकास्वरूपस्य स्वहेतुभ्य एव सादृश्योत्पन्नत्वान्न तु सादृश्ययोगात् सदृशो भवतीति सामान्यप्रस्तावे न्यायस्योक्तत्वात्।
एवन्तावद् उ द्यो त क रा दिमतं निराकृत्य मी मां स क मतं निराकर्तुमाह । न हीत्यादि। तथा हि जलज्ञाने द्वयं प्रतिभासते जलसामान्यन्तस्य च देशादिस
1 Siam-pahi-ses-pa.