________________
२०६
प्रमाणवात्तिकस्ववृत्तिटीका (१।१००) ज्ञानाद्यर्थक्रियान्स्तांस्तां दृष्ट्वा भेदेपि कुर्वतः ।
(अर्थान् तद)न्यविश्लेषविषयैर्ध्वनिभिः सह ॥१०॥ उक्तमेतः । वस्तुभेदेऽपि सदृशार्थक्रियया चक्षुरादिवदिति चेत् । ज्ञानाद्यर्थक्रियामेकां तेषु पश्यतोऽन्येभ्यो भिन्ना वस्तुधर्मतयैव तदेवेदमिति प्रत्ययं तव्यावृत्तिविषयध्वनिसंसृष्टं स्वानुभववासनाप्रवोधात् जनयन्ति । अन्यथा न भेदसंसर्गवती बुद्धिः स्यात्। यथा दण्डिषु दण्डः। तत्र एकेन दण्डेन यक्ता अपि अन्यत्र स एवेति न (भवति) प्रतीतिः, अपि त तबिहेति। नैवं प्रत्यभि
भिरन्तर्जल्परूपैः सह संयोज्यार्थान् स 3 एवायमिति कुर्यादपि पुमान् । अपि शब्दो भिन्नक्रमोन्यदर्शनेपीत्यर्थः । पूर्वदृष्टादर्थादन्यस्य विलक्षणस्य दर्शनेपि सदृशार्थक्रियाकारित्वेन विप्रलम्भादेकत्वमारोप्य प्रत्यभिज्ञानं कुर्यादिति समुदायार्थः ।
कथं पुनभिन्ना अभिन्नामर्थक्रियां कुर्वन्तीत्यत आह। उक्तमेतदित्यादि। "एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने” (११७५)
इत्यादिना प्रागुक्तत्वात् । एकामिति सदृशीन्तेष्विति भिन्नेष्वन्येषु पश्यतः पुंसः । अन्येभ्य इत्यतत्कारिभ्यो व्यावर्त्तमाना भावा वस्तुधर्मतयैव वस्तुस्वभावेनैव। तदेवेदमित्येवमाकारं मिथ्याप्रत्ययं जनयन्तीति सम्बन्धः। किम्विशिष्टमित्याह। तदित्यादि। तेभ्योऽतत्कार्येभ्यो या व्यावृत्तिरेकार्थक्रियाकारिणामर्थानां सा विषयो यस्य ध्वनेस्तेन संसृष्टं संसक्तं साभिलापमिति यावत् ।
यदि वस्तुधर्मतया जनयन्ति किन्न सर्वदेत्याह। स्वानुभवेत्यादि। तेषाम्भावानां यः स्वोनुभवः पूर्वमुत्पन्नस्तेन या प्रत्यभिज्ञानोत्पत्तये वासना शक्तिलक्षणादिता। तस्याः प्रबोधः कार्योत्पादनंप्रत्याभिमुख्यन्तस्याश्च प्रबोध: पुनस्तज्जातीयपदार्थानुभवात् । एवंलक्षणश्च प्रबोधो न सर्वकालमतो न सदा प्रत्यभि:ज्ञानसम्भव इति। संसृष्टभेदमिति पूर्वपश्चादृष्टयोळक्त्योर्भेद: संसृष्ट एकीकृतो येन स तथा। अन्यथेति यद्येककार्यत्वेन सादृश्येनैकत्वमारोप्य भिन्नेष्वपि भ्रान्तं
प्रत्यभिज्ञानं नेष्यते (1) अपि त्वेकसामान्ययोगात् तदा न भेवसंसर्गवती। भेदानां 77a संसर्ग एकरूपतापादनन्तद्वती बुद्धिर्न स्यात् । बहुष्वेकरूपा बुद्धिर्न स्यादित्यर्थः।।
न होकेन दण्डेन युक्ता अपि दण्डिन एकत्वेन गृह्यन्ते। तदेवाह (1) यथा दण्डिविति। न हीत्येतदेव व्यनक्ति। तत्रेति दण्डिषु। अन्यत्रेति एकस्माद् दण्डिनोन्यस्मिन दण्डिनि। तदृण्डद्रव्यं यदेकदण्डिनि दृष्टन्तदिह द्वितीये दण्डिनीत्येवं स्यात्। न तु तद्द्वारेण स एवायन्दण्डीति। यद्वा यथा बहष्वेकदण्डयोगात। प्रत्येकमयमपि दण्डस्तथा स एवायन्दण्ड इति न भवति प्रतीतिस्तद्वत् । व्यक्ती