________________
४. सामान्यचिन्ता
२०५
वस्तुनि यथाभावं अर्पितचेतसः प्रवृत्तौ प्राह्यस्य सामान्यस्यानर्थक्रियायोग्यत्वात् अप्रवृत्तिः तस्मिन् । अन्यत्रापि प्रवृत्तौ अतिप्रसंगः। तद्वद्ग्रहणे च सामान्यवैयर्थ्यादयः प्रोक्ताः। जातिग्रहणेऽपि सम्बन्धात् श्लिष्टाभासा बुद्धिः प्रवर्त्तयतीति चेत् । तस्यैकस्यापि स्वभावस्थित्यग्रहणात् म जातिर्न तामिति परवाब एवाधीयते ॥६॥
(घ) सामान्याभावे प्रत्यभिज्ञासंगतिः एवं हि अन्वयिनोऽप्यभावात् स्वभावेन भिन्नार्थेषु सैवैषेति प्रत्यभिज्ञाऽपि न स्यादिति चेत्। नैष दोष' एवं
450a
___अथ पुनर्यथावस्त्वेव शाब्दः प्रत्यय इष्यते । तदा वस्तुनि बाटे। यथाभावं यथावस्तु अर्पितचेतसः आरोपितज्ञानस्य शब्दबलाद्यन्यथा वस्तूत्पन्नज्ञानस्येति यावत् । एवं प्रवृत्तावभ्युपगम्यमानायान्तस्य शाब्दस्य ज्ञानस्य सामान्य ग्राह्यमेष्टव्यं स्वलक्षणे शब्देन चोदनाभावात (1) तस्य च ग्राह्यस्य सामान्यस्यानर्थक्रियायोग्यत्वाद्धेतोरणवत्तिस्तस्मिन् विकल्पविज्ञानविषये सामान्ये। अन्यत्रेति सामान्यादन्यत्र व्यक्तावशब्दचोदितायामपि प्रवत्तावतिप्रसङः। गोशब्दादश्वव्यक्तावपि प्रवत्तिः स्याद गोत्वसामान्यस्याश्वव्यक्तेश्च सम्बन्धाभावान्नैवमिति चेन्नाशब्दचोदिते सत्यपि सम्बन्धे प्रवृत्त्ययोगादित्याद्युक्तं।
अथ न केवला जातिः शब्देन चोदितेति किन्तु तद्वानिति (1) तदा तद'- 76b द्ग्रहणे चाभ्युपगम्यमाने सामाम्यवैयर्थ्यादयः प्रोक्ताः। व्यक्तिष्वेव साक्षाच्छब्दो नियुज्यतां किं सामान्येनेति सामान्यवैयर्थ्यमुक्तं। आदिशब्दाद् आनन्त्यादिदोषपरिग्रहः। जातिरेव शब्देन चोद्यते। सा तु जातिर्व्यक्तिसमवेतत्वान्न शक्यते केवला गृहीतुमतो व्यक्तिरूपेणैकीभूता गृह्यते (1) तदेवाशङ्कते। जातीत्यादि। श्लिष्टाभासेति स्वसामान्यलक्षणाभ्यां सम्भिन्नाभासा बुद्धिरर्थक्रियाकारिण्यां व्यक्तौ प्रवर्तयतीति चेत् । तदा न जातिर्न तद्वान् । स्वेन रूपेण गृह्यत इत्यध्याहारः। किङ्कारणम् (1) एकस्यापि सामान्यस्य तद्वतो वा या स्वभावस्थितिरसंसृष्टं रूपं तस्य श्लिष्टाभासया भ्रान्तया बुद्धया। अग्रहणात्। ततश्च भ्रान्ताया बुद्धेः प्रवृत्त्यभ्युपमगात् परवाव एवान्यापोहवादिदर्शनमेव ।।
एवमित्यादि परः। अन्वयिन इत्यनेकव्यक्तिगम्यस्य सामान्यस्य ।
नैष दोष इति सिद्धान्त वा दी। आदिशब्दादुदकाहरणान्तान्ताम्भेवेपि परस्परव्यावृत्तत्वेपि वस्तुधर्मतया तां तां ज्ञानाविकां सदृशीमर्थकियां कुर्वतो दृष्ट्वा तदन्येभ्योतत्कार्येभ्यो यो विश्लेषो विच्छिन्नः स्वभावः स विषयो येषां ध्वनीनान्तर्ध्वनि