________________
२०४ प्रमाणवात्तिकस्ववृत्तिटीका (१।६६) भवतीति चेत्, तुल्यं तद्व्यावृत्तिमतोऽपि । ____ व्यावृत्तिवादिनामिव शाब्दप्रत्ययः अवस्तुग्राही। स विभ्रमवशात् अकारकेऽपि कारकाध्यवसायी। वस्तुसंवादो तत्प्रतिबन्धे सति स्यात्, वस्तूत्पत्याऽन्यथा नैव । वस्तूत्पत्तरभ्रान्तिरिति चेत्। नैतदेवम्। अतत्प्रतिभासिनस्तदध्यवसायाच्च । प्रभायां मणिभ्रान्तिः प्रतिभासात् भ्रान्तेः। यदि भ्रान्तेः संवादो नेति चेत् । न। यथोक्तवदेव' व्यभिचाराःस्यात्। वितथप्रतिभासो हि भ्रान्तिलक्षणम् । तन्नान्तरीयकतया हि संवादो न प्रतिभासापेक्षी।
तुल्यमित्यादि सिद्धान्त वा दी। तदिति अर्थक्रियासाधनत्वं ।
एवन्तावत्प्रतिबन्धकन्यायेनाविद्यमानाया अपि व्यावृत्तेः सद्भावमभ्युपगम्य शब्दार्थत्वमुक्तमाचार्य दिग्ना गेनेति व्याख्याय पुनर्विधिमेव शब्दार्थमाह । अव76a स्तुना'ही चेत्यादि । यद्यवस्तुविषयः कथमर्थक्रियार्थिनं पुरुषं प्रवर्तयतीति चेदाह ।
स विभ्रमेत्यादि। स इति शाब्दप्रत्ययः । विभ्रमवशात् पुरुषं प्रवर्तयति । विभ्रम एव कथमित्याह(।)अकारकेपि स्वप्रतिभासेर्थक्रियायोग्यत्वात् कारको बाह्योर्थस्तदध्यवसायी यतः । कथन्तीनुमानादेर्वस्तुसम्वाद इत्यत आह । वस्तुसम्वाद इत्यादि । तस्मिन् साध्ये प्रतिबन्धे सति (1) प्रतिबन्ध एव कुतः । वस्तूत्पत्त्या साध्यवस्तूत्पत्त्या हेतुभूतया अन्यथेत्यसति प्रतिबन्धे। नैवास्ति सम्वादः शब्दादेः प्रत्ययस्य । वस्तूत्पत्तेरभ्रान्तिरिति चेत् । स्यादेतद् यदि वस्तुनश्चोत्पद्यते वस्तुसम्वादि शाब्दादिज्ञानमिति व्यापकविरुद्धोपलब्धिम्मन्यते । नैतदेवं । सत्यपि वस्तूत्पत्तावतत्प्रतिभासिनो वस्तुरूपाप्रतिभासिनस्तदध्यवसायाद् वस्त्वध्यवसायाद् भ्रान्तित्वं । ततो वस्तुरूपोत्पत्तिभ्रान्त्योविरोधाभावात् सन्दिग्धव्यतिरेकिता हेतोरिति भावः । मणिप्रभायाम्मणिभ्रान्तिर्मणिं सम्वादयत्येव। व्यभिचारमेव समर्थयन्नाह । वितथेत्यादि । एतदाह (1) यदि भ्रान्तेः सम्वादस्य च विरोधः स्यात् तदा भ्रान्तेरवस्तुसम्वादनं साध्यं प्रत्यव्यभिचारः स्यात्। स च नास्ति । यस्माद् वितथप्रतिभासो भ्रान्तिलक्षणं न विसम्वादने। तन्नान्तरीयकतयेति वस्तुनान्तरीयकतया तत उत्पत्तेरिति यावत् । अयं सम्वादो न प्रतिभासापेक्षी। न वस्तुगतम्प्रतिभासमपेक्षते । वस्तुप्रतिबद्धत्वेनैवातत्प्रतिभासस्यापि सम्वादात् ।
तस्मात् स्थितमेतद् वितथप्रतिभास्यपि शाब्दः प्रत्ययः सति वस्तुप्रतिबन्धे तस्य सम्वादक इति।
1Ji-skad-bsad-pa-lta-bu-kho-nas.