________________
२०३
४. सामान्यचिन्ता व्यवच्छेदोस्ति चेदस्य नन्वेवावत् प्रयोजनम् ।
शब्दानामिति किं तत्र सामान्येनापरेण वः ॥९९।। ननु प्रवृत्तिविषयं प्रतिपाद्यते इत्युक्तम् । तद् वचनमुक्त्वाऽपि नोक्ता जातिः। तथा हि सा न प्रवृत्तियोग्येति निवेदितमेतद् । तद्द्वारेण अचोदिते प्रवृत्तिरप्यपोदिता' । तद्वच्चोदने हि व्यवधानम्। ___ जातितद्वतोः प्रवृत्तिविषयत्वे' व्यावृत्तितद्वन्तौ किन्नेष्यते। व्यावृत्तेरवस्तु- 449b त्वेनासाधनत्वान्नेति चेत्। तदेतज्जातेरपि तुल्यम् । तद्वतः साधनात् दोषो न
अस्य वा जातिमतो व्यवच्छेदः शब्दवाच्योस्ति चेत् । नन्वेतावदन्य व्यवच्छेदेनेष्टप्रवर्त्तनं प्रयोजनं शब्दानामिति कृत्वा। तत्रेति व्यवच्छेदेनेष्टप्रवर्त्तने कर्तव्ये । तत्र वा प्रवृत्तिविषये कि सामान्येनापरेण वः प्रयोजनं ॥
नन्वित्यादि परः । उक्तमित्या चार्यः। तथा हीत्ययुक्तत्वप्रतिपादनं । सेति • जातिः। अर्थक्रियां प्रत्यसामर्थ्यान्न प्रवृत्तियोग्या जातिः । नापि मोशब्दाज्जातिः प्रतीयते । निवेदितमेतदिति “तत्रानर्थक्रियायोग्या जातिरि" (प्र. स.)त्यादिना। जातिद्वारेण च द्रव्येऽर्थक्रियासमर्थ पुरुषस्य प्रवृत्तिर्भविष्यतीति चेदाह । तद्द्वारेणेत्यादि । अशब्दचोदिते सत्यपि सम्बन्धे कथं प्रवर्ततेत्यादिना। जातिद्वारेण तद्वानेव चोद्यत इति चेदाह । तद्वच्चोदन इत्यादि । व्यवधानमुक्तमिति लिङ्गपरिणामेन सम्बन्धः । सामान्येन तत्र व्यवधानमित्युक्तं । स च साक्षान्न योज्यते कस्मात् (1) किन्तत्रान्येन व्यवधानेत्यादिना । _____ स्यान्मतं (1) न जातिः केवला व्यक्तिर्वा शब्दाश्रयाः प्रवृत्तेराश्रयः केवलाया जातरेर्थक्रियायामसामर्थ्यं । व्यक्तेश्च केवलाया अशक्यचोदनत्वात् । तस्माज्जातितद्वन्तौ सहितौ प्रवृत्तिविषयस्तयोरेव समस्तयोः शब्दार्थत्वमित्यत आह । जातितद्वतोरित्यादि। प्रवृत्ति विषयत्व इति शब्दाश्रयायाः प्रवृत्तेविषयत्वेभ्युपगम्यमाने । व्यावृत्तितद्वन्तौ किन्नेष्यते प्रवृत्तिविषयत्वेनेत्यध्याहारः । प्रमाणसिद्धौ हि व्यावृत्तितद्वन्ताविति भावः । व्यावृत्तेः शब्दभूतायाः बुद्धिपरिकल्पितत्वादवस्तुत्वमतो वाहदोहाद्यर्थक्रियांप्रत्यसाधनत्वान्न प्रवृत्तिविषयत्वमिति चेत् । तदेतदसाधनत्वं जातेस्तुल्यं सापि वाहदोहादावसमर्था। . - तद्वत इति जातिमतोर्थक्रियासाधनात् प्रवृत्त्यभावलक्षणो दोषो न भवतीति चेत् ।
1 Gsal-zin-te.